२५

01 पुरस्तादैन्द्रवायवम् भक्षयति प्राणेषूपनिग्राहम् …{Loading}…

पुरस्तादैन्द्रवायवं भक्षयति प्राणेषूपनिग्राहम् । पुरस्तान्मैत्रावरुणं चक्षुषोरुपनिग्राहम् । सर्वतः परिहारमाश्विनं श्रोत्रयोरुपनिग्राहम् १

02 अव्युत्सृजन्तौ पात्रन् द्विरैन्द्रवायवम् …{Loading}…

अव्युत्सृजन्तौ पात्रं द्विरैन्द्रवायवं भक्षयतो भक्षयन्ति भक्षयति वा । सकृत्सकृदितरौ २

03 तद्येषाम् भक्षयत इत्यध्वर्युर्होता …{Loading}…

तद्येषां भक्षयत इत्यध्वर्युर्होता वेत्यर्थः । भक्षयन्तीत्यध्वर्यू होता चेत्यर्थः । भक्षयतीति सस इत्यर्थह् ३

04 भक्षयित्वा होतृचमसे सम्पातानवनयतो …{Loading}…

भक्षयित्वा होतृचमसे सम्पातानवनयतो भक्षितानभक्षिते ४

05 अत्र पात्रं व्युत्सृजतः …{Loading}…

अत्र पात्रं व्युत्सृजतः ५

06 पुरोडाशशकलमैन्द्रवायवस्य पात्रेऽवदधाति पयस्याम् …{Loading}…

पुरोडाशशकलमैन्द्रवायवस्य पात्रेऽवदधाति । पयस्यां मैत्रावरुणस्य । धाना आश्विनस्य ६

07 तानि दक्षिणस्य हविर्धानस्योत्तरस्यां …{Loading}…

तानि दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्यां सादयति । आ तृतीयसवनात्परिशेरे यज्ञस्य सन्तत्या इति विज्ञायते ७

08 अत्रेडाया निरवदानमेके समामनन्ति …{Loading}…

अत्रेडाया निरवदानमेके समामनन्ति ८

09 अत्र होतेडामुपह्वयते उपोद्यच्छन्ते …{Loading}…

अत्र होतेडामुपह्वयते । उपोद्यच्छन्ते चमसांश्चमसिनः । होतृचमसमिडायामास्पृष्टम् ९

10 उपहूताम् प्राश्नन्ति ये …{Loading}…

उपहूतां प्राश्नन्ति ये प्रकृतौ १०

11 पुरोडाशशकलमच्छावाकाय निदधाति …{Loading}…

पुरोडाशशकलमच्छावाकाय निदधाति ११

12 आग्नीध्रे हविःशेषान्भक्षयन्ति …{Loading}…

आग्नीध्रे हविःशेषान्भक्षयन्ति १२

13 अत्र सवनीयानां शाखाप्रहरणं …{Loading}…

अत्र सवनीयानां शाखाप्रहरणं वाजिनचर्यान्तर्वेदि यजमानस्य वेदाभिमर्शनं पिष्टलेपफलीकरणहोमौ पत्न्या वेदप्रासनं प्रणीतासु मार्जनमुपवेषोदसनं कपालविमोचनमिति क्रियन्ते १३

14 नह्येतेषाम् प्रासङ्गिकं वैशेषिकमुत्कर्षति …{Loading}…

नह्येतेषां प्रासङ्गिकं वैशेषिकमुत्कर्षति १४

15 उत्कर्षेदित्यपरम् …{Loading}…

उत्कर्षेदित्यपरम् १५

16 वषट्कारेण होता भक्षं …{Loading}…

वषट्कारेण होता भक्षं लभते १६

17 होमाभिषवाभ्यामध्वर्युः नान्यतरेण …{Loading}…

होमाभिषवाभ्यामध्वर्युः । नान्यतरेण १७

18 समाख्यानेनापि भक्षं लभन्ते …{Loading}…

समाख्यानेनापि भक्षं लभन्ते १८

19 सर्वांश्चमसान्सकृद्धोता भक्षयति …{Loading}…

सर्वांश्चमसान्सकृद्धोता भक्षयति १९

20 द्विः स्वञ् चमसम् …{Loading}…

द्विः स्वं चमसम् २०

21 होत्रकाः स्वंस्वञ् चमसन् …{Loading}…

होत्रकाः स्वंस्वं चमसं द्विर्भक्षयन्ति २१

22 तानध्वर्युः सकृद्भक्षितान्यथापूर्वम् प्रतिभक्षयति …{Loading}…

तानध्वर्युः सकृद्भक्षितान्यथापूर्वं प्रतिभक्षयति २२

23 अन्तत इतरे …{Loading}…

अन्तत इतरे २३

24 भक्षितानाप्याययन्त्याप्यायस्व समेतु त …{Loading}…

भक्षितानाप्याययन्त्याप्यायस्व समेतु त इति २४

25 ते नाराशंसाः …{Loading}…

ते नाराशंसाः २५

26 द्विनाराशंसे पूर्वे सवने …{Loading}…

द्विनाराशंसे पूर्वे सवने भवतः । एकनाराशंसं तृतीयसवनम् २६

27 भक्षिताप्यायितान्सादयन्ति दक्षिणस्य हविर्धानस्याधस्तादवालम्बे …{Loading}…

भक्षिताप्यायितान्सादयन्ति दक्षिणस्य हविर्धानस्याधस्तादवालम्बे २७

इति पञ्चविंशी कण्डिका इति सप्तमः पटलः


  1. Cf. in general TS VI.4.9.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Adhvaryu, Pratiprasthātr̥ and the Hotr̥. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Each one entitled to drink. ↩︎ ↩︎ ↩︎

  4. Cf. KB XIII.6. ↩︎ ↩︎

  5. See III. 10.3-4. ↩︎

  6. See IV.14.4. ↩︎

  7. See III.13.6. ↩︎

  8. See III. 14.4. ↩︎