२४

01 ब्रह्मन्यजेति द्वितीये सम्प्रेष्यति ...{Loading}...

ब्रह्मन्यजेति द्वितीये सम्प्रेष्यति । पोतर्यजेति तृतीये । नेष्टर्यजेति चतुर्थे । अग्नीद्यजेति पञ्चमे १

02 सर्वत्रानुवषट्कारो द्विदेवत्यर्तुग्रहादित्यसावित्रपात्नीवतवर्जम् ...{Loading}...

सर्वत्रानुवषट्कारो द्विदेवत्यर्तुग्रहादित्यसावित्रपात्नीवतवर्जम् २

03 आग्नीध्रचमसमादाय सद एत्यायाडग्नीदित्याचष्टे ...{Loading}...

आग्नीध्रचमसमादाय सद एत्यायाडग्नीदित्याचष्टे ३

04 स भद्रमकर्यो नः ...{Loading}...

स भद्रमकर्यो नः सोमं पाययिष्यतीतीतरे प्रत्याहुः ४

05 यदि राजन्यं वैश्यं ...{Loading}...

यदि राजन्यं वैश्यं वा याजयेत्स यदि सोमं बिभक्षयिषेन्न्यग्रोधस्तिभिनीराहृत्य सम्पिष्य दधन्युन्मृज्य चमसेषु हूयमानेष्वन्तःपरिध्यङ्गारं निर्वर्त्यैतस्य चमसस्य दर्भतरुणेनोपहत्याहं त्वदस्मि मदसि त्वमित्यङ्गारे हुत्वा तमस्मै भक्षं प्रयच्छेत् ५

06 पात्रे समवेतानां वषट्कर्ता ...{Loading}...

पात्रे समवेतानां वषट्कर्ता पूर्वो भक्षयति ६

07 भक्षेहीति भक्षमाह्रियमाणम् प्रतीक्ष्याश्विनोस्त्वा ...{Loading}...

भक्षेहीति भक्षमाह्रियमाणं प्रतीक्ष्याश्विनोस्त्वा बाहुभ्यां सघ्यासमिति प्रतिगृह्य नृचक्षसं त्वा देव सोमेत्यवेक्ष्य मन्द्राभिभूतिरिति प्रातःसवने सर्वानैन्द्रान्भक्षयति । नराशंसपीतस्येति नाराशंसान् । रुद्रवद्गणस्येति माध्यन्दिने सवने सर्वानैन्द्रान्भक्षयति । नराशंसपीतस्येति नाराशंसान् । आदित्यवद्गणस्येति तृतीयसवने सर्वानैन्द्रान्भक्षयति । नराशंसपीतस्येति नाराशंसान् ७

08 यत्प्राग्वसुमद्गणात्तत्सर्वत्रानुषजति ...{Loading}...

यत्प्राग्वसुमद्गणात्तत्सर्वत्रानुषजति ८

09 अप्यन्यदेवतानिन्द्रपीतस्येति ...{Loading}...

अप्यन्यदेवतानिन्द्रपीतस्येति ९

10 यथादेवतं वा ...{Loading}...

यथादेवतं वा १०

11 वाग्जुषाणा सोमस्य तृप्यत्विति ...{Loading}...

वाग्जुषाणा सोमस्य तृप्यत्विति सर्वसोमानां भक्षणमेके समामनन्ति ११

12 वाग्देवी सोमस्य तृप्यत्विति ...{Loading}...

वाग्देवी सोमस्य तृप्यत्विति वा १२

13 हिन्व मे गात्रा ...{Loading}...

हिन्व मे गात्रा हरिव इति भक्षयित्वा नाभिदेशानभिमृशन्ते १३

14 नानुपहूतेन सोमः पातवै ...{Loading}...

नानुपहूतेन सोमः पातवै । सोमपीथेन ह व्युर्धुको भवति १४

15 असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते उपहूत ...{Loading}...

असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते । उपहूत इति प्रतिवचनः १५

16 ये समाने प्राये ...{Loading}...

ये समाने प्राये भक्षयन्ति तेषूपहवमिच्छते १६

17 ये वैकपात्रम् ...{Loading}...

ये वैकपात्रम् १७

इति चतुर्विंशी कण्डिका


  1. See XII.20.23-24; 21.7; cf. KB XIII.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XII.26.8; cf. KB XIII.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XII. 10.1.ff; cf. KB XVI.1. ↩︎ ↩︎ ↩︎

  4. See XIII. 13.1ff; cf. KB XVI.2. ↩︎ ↩︎

  5. See XIII. 14.7ff; cf. KB XVI.6. ↩︎ ↩︎

  6. TS III.2.5.g. ↩︎

  7. TS III.2.5.h. ↩︎

  8. TS III.2.5.h. ↩︎

  9. TS III.2.5.i. ↩︎

  10. TS III.2.5.i. ↩︎