२३

01 तौ देवौ शुक्रामन्थिनौ …{Loading}…

तौ देवौ शुक्रामन्थिनौ कल्पयतं दैवीर्विशः कल्पयतं मानुषीरिषमूर्जमस्मासु धत्तं प्राणान्पशुषु प्रजां मयि च यजमाने चेति १

02 अप्रोक्षितौ शकलौ बहिर्वेदि …{Loading}…

अप्रोक्षितौ शकलौ बहिर्वेदि निरस्यतो निरस्तौ शण्डामर्कौ सहामुनेति । निरस्तः शण्ड इति वाध्वर्युर्द्वेष्यं मनसा ध्यायन् । विरस्तो मर्क इति प्रतिप्रस्थाता २

03 प्रोक्षितावाधत्तः शुक्रस्य समिदसीत्यध्वर्युः …{Loading}…

प्रोक्षितावाधत्तः । शुक्रस्य समिदसीत्यध्वर्युः । मन्थिनः समिदसीति प्रतिप्रस्थाता ३

04 आश्राव्य प्रत्याश्राविते सम्प्रेष्यति …{Loading}…

आश्राव्य प्रत्याश्राविते सम्प्रेष्यति प्रातः प्रातःसावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्राय सोमान्प्रस्थितान्प्रेष्य मध्यतःकारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जुहुत होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वमिति ४

05 सम्प्रैषवत्कुर्वन्ति …{Loading}…

सम्प्रैषवत्कुर्वन्ति ५

06 पुरस्तात्प्रत्यञ्चावध्वर्यू जुहुतः पश्चात्प्राञ्चश्चमसैश्चमसाध्वर्यवो …{Loading}…

पुरस्तात्प्रत्यञ्चावध्वर्यू जुहुतः । पश्चात्प्राञ्चश्चमसैश्चमसाध्वर्यवो जुह्वति ६

07 शुक्रामन्थिनोः प्रतिनिगद्य होमः …{Loading}…

शुक्रामन्थिनोः प्रतिनिगद्य होमः ७

08 स प्रथमः सङ्कृतिर्विश्वकर्मा …{Loading}…

स प्रथमः सङ्कृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणो अग्निः । स प्रथमो बृहस्पतिश्चिकित्वांस्तस्मा इन्द्राय सुतमाजुहोमि स्वाहेत्यध्वर्युर्जुहोति । तस्मै सूर्याय सुतमाजुहोमि स्वाहेति प्रतिप्रस्थाता ८

09 सानुवषट्कारावननुवषट्कारौ वा …{Loading}…

सानुवषट्कारावननुवषट्कारौ वा ९

10 सर्वहुतौ …{Loading}…

सर्वहुतौ १०

11 अपि वा सूदवच्छुक्रपात्रमायतने …{Loading}…

अपि वा सूदवच्छुक्रपात्रमायतने सादयित्वोत्तरार्धात्प्रतिप्रस्थाता बहिःपरिध्यङ्गारं निर्वर्त्य तस्मिन्मन्थिनः संस्रावं जुहोत्येष ते रुद्र भागो यं निरयाचथा इति ११

12 आर्तपात्रमेतद्यन्मन्थिपात्रम् यमृत्विजान् द्विष्यात्तस्मै …{Loading}…

आर्तपात्रमेतद्यन्मन्थिपात्रम् । यमृत्विजां द्विष्यात्तस्मै हरेत् । आर्छतीहैवेति विज्ञायते १२

13 ततः सम्प्रेष्यति प्रैतु …{Loading}…

ततः सम्प्रेष्यति प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्य । प्रोद्गातॄणामित्येके समामनन्ति । प्र सदस्यस्य । प्रयन्तु सदस्यानामिति वा १३

14 अथ होत्राः संयाजयन्ति …{Loading}…

अथ होत्राः संयाजयन्ति १४

15 तस्मै चमसाध्वर्यवः स्वंस्वञ् …{Loading}…

तस्मै चमसाध्वर्यवः स्वंस्वं चमसम् द्रोणकलशादभ्युन्नीय हरन्ति १५

16 मैत्रावरुणचमसमादायाहवनीयङ् गत्वाश्राव्य प्रत्याश्राविते …{Loading}…

मैत्रावरुणचमसमादायाहवनीयं गत्वाश्राव्य प्रत्याश्राविते सम्प्रेष्यति होतर्यज प्रशास्तरिति वा १६

17 वषट्कृतानुवषट्कृते हुत्वा हरति …{Loading}…

वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् १७

18 एवमुत्तरैः प्रचरति एतावन्नाना …{Loading}…

एवमुत्तरैः प्रचरति । एतावन्नाना १८

इति त्रयोविंशी कण्डिका


  1. TB I.1.1.4-5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB I.1.1.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TB I.1.1.5. ↩︎ ↩︎ ↩︎

  4. Cp. ŚB IV.2.1.28. For the last part of the order, see XII.23.15. ↩︎