01 ततः शुक्रामन्थिभ्याम् प्रचरतः ...{Loading}...
ततः शुक्रामन्थिभ्यां प्रचरतः । स्तुतोऽसि जनधा देवास्त्वा शुक्रपाः प्रणयन्त्विति शुक्रमध्वर्युरादत्ते । स्तुतोऽसि जनधा देवास्त्वा मन्थिपाः प्रणयन्त्विति मन्थिनं प्रतिप्रस्थाता । चमसांश्चमसाध्वर्यवः १
सर्वाष् टीकाः ...{Loading}...
थिते
- Then (the Adhvaryu and the Pratiprasthātr̥) perform the ritual with the Śukra and Manthin (-scoops).1 With stuto’si janadhā devāstvā śukrapāḥ…2 the Adhvaryu takes the Śukra (-scoop). With stuto’si janadhā devāstvā manthipāḥ…3 the Pratiprasthātr̥ takes the Manthin (-scoop). The Camasādhvaryus (take) the goblets.4
मूलम् ...{Loading}...
ततः शुक्रामन्थिभ्यां प्रचरतः । स्तुतोऽसि जनधा देवास्त्वा शुक्रपाः प्रणयन्त्विति शुक्रमध्वर्युरादत्ते । स्तुतोऽसि जनधा देवास्त्वा मन्थिपाः प्रणयन्त्विति मन्थिनं प्रतिप्रस्थाता । चमसांश्चमसाध्वर्यवः १
02 तौ प्रोक्षिताभ्यां शकलाभ्यामपिधायाप्रोक्षिताभ्यामधस्तात्पांसूनपध्वंसयतोऽपनुत्तौ ...{Loading}...
तौ प्रोक्षिताभ्यां शकलाभ्यामपिधायाप्रोक्षिताभ्यामधस्तात्पांसूनपध्वंसयतोऽपनुत्तौ शण्डामर्कौ सहामुनेति । अपनुत्तः शण्ड इति वाध्वर्युर्द्वेष्यं मनसा ध्यायन् । अपनुत्तो मर्क इति प्रतिप्रस्थाता २
सर्वाष् टीकाः ...{Loading}...
थिते
- Having covered these scoops by means of the two splinters on which water has been sprinkled, (the Adhvaryu and the Pratiprasthātr̥ wipe off the dust below them by means of the two splinters on which water has not been sprinkled, with apanuttau śaṇḍāmarkau saha N.N.1 or the Adharvyu (does this) with apanuttaḥ śaṇḍaḥ…2 while thinking about the enemy, and the Pratiprasthātr̥ (does this) with apanutto markaḥ…3
मूलम् ...{Loading}...
तौ प्रोक्षिताभ्यां शकलाभ्यामपिधायाप्रोक्षिताभ्यामधस्तात्पांसूनपध्वंसयतोऽपनुत्तौ शण्डामर्कौ सहामुनेति । अपनुत्तः शण्ड इति वाध्वर्युर्द्वेष्यं मनसा ध्यायन् । अपनुत्तो मर्क इति प्रतिप्रस्थाता २
03 तावपिगृह्य प्राञ्चौ निष्क्रामतः ...{Loading}...
तावपिगृह्य प्राञ्चौ निष्क्रामतः ३
मूलम् ...{Loading}...
तावपिगृह्य प्राञ्चौ निष्क्रामतः ३
04 उर्वन्तरिक्षमन्विहीत्यभिप्रव्रजतः ...{Loading}...
उर्वन्तरिक्षमन्विहीत्यभिप्रव्रजतः ४
सर्वाष् टीकाः ...{Loading}...
थिते
- With urvantarikṣamanvihi… they go forth. (continuously).
मूलम् ...{Loading}...
उर्वन्तरिक्षमन्विहीत्यभिप्रव्रजतः ४
05 इन्द्रेण मन्युना युजावबाधे ...{Loading}...
इन्द्रेण मन्युना युजावबाधे पृतन्यता । घ्नता वृत्राण्यप्रतीति शुक्रं यजमानोऽन्वारभत होमात् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Upto the act of offering the libation, the sacrificer holds the Śukra(-cup) with indreṆa manyunā yujā…1
मूलम् ...{Loading}...
इन्द्रेण मन्युना युजावबाधे पृतन्यता । घ्नता वृत्राण्यप्रतीति शुक्रं यजमानोऽन्वारभत होमात् ५
06 अपरेणोत्तरवेदिङ् ग्रहावरत्नी वा ...{Loading}...
अपरेणोत्तरवेदिं ग्रहावरत्नी वा सन्धत्तो ब्रह्म सन्धत्तं तन्मे जिन्वतं क्षत्त्रं सन्धत्तं तन्मे जिन्वतमिषं सन्धत्तं तां मे जिन्वतमूर्जं सन्धत्तं तां मे जिन्वतं रयिं सन्धत्तं तां मे जिन्वतं पुष्टिं सन्धत्तं तां मे जिन्वतं प्रजां सन्धत्तं तां मे जिन्वतं पशून्सन्धत्तं तान्मे जिन्वतमिति ६

07 अनाधृष्टासीत्यङ्गुष्ठाभ्यामुत्तरवेदिमवगृह्य व्यपरिफन्ताविवोत्तरवेदिम् परिक्रामतः ...{Loading}...
अनाधृष्टासीत्यङ्गुष्ठाभ्यामुत्तरवेदिमवगृह्य व्यपरिफन्ताविवोत्तरवेदिं परिक्रामतः ७
मूलम् ...{Loading}...
अनाधृष्टासीत्यङ्गुष्ठाभ्यामुत्तरवेदिमवगृह्य व्यपरिफन्ताविवोत्तरवेदिं परिक्रामतः ७
08 सुवीराः प्रजाः प्रजनयन्परीहि ...{Loading}...
सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिषेति दक्षिणेनाध्वर्युः प्रतिपद्यते । सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थीमन्थिशोचिषेत्युत्तरेण प्रतिप्रस्थाता । अग्रेणोत्तरवेदिं ग्रहावरत्नी वा सन्धत्तः सञ्जग्मानौ दिव आ पृथिव्या आयुः सन्धत्तं तन्मे जिन्वतं प्राणं सन्धत्तं तं मे जिन्वतमपानं सन्धत्तं तं मे जिन्वतं व्यानं सन्धत्तं तं मे जिन्वतं चक्षुः सन्धत्तं तन्मे जिन्वतं श्रोत्रं सन्धत्तं तन्मे जिन्वतं मनः सन्धत्तं तन्मे जिन्वतं वाचं सन्धत्तं तां मे जिन्वतमिति ८

09 अथैनावध्वर्युरभिमन्त्रयत आयु स्थ ...{Loading}...
अथैनावध्वर्युरभिमन्त्रयत आयु स्थ आयुर्मे धत्तमायुर्यज्ञाय धत्तमायुर्यज्ञपतये धत्तं प्राण स्थः प्राणं मे धत्तं प्राणं यज्ञाय धत्तं प्राणं यज्ञपतये धत्तं चक्षु स्थश्चक्षुर्मे धत्तम् चक्षुर्यज्ञय धत्तं चक्षुर्यज्ञपतये धत्तं श्रोत्रं स्थः श्रोत्रं मे धत्तं श्रोत्रं यज्ञाय धत्तं श्रोत्रं यज्ञपतये धत्तम् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Then the Adhvaryu addresses these two (cups) with āyu stha ayur me dhattam…,1
मूलम् ...{Loading}...
अथैनावध्वर्युरभिमन्त्रयत आयु स्थ आयुर्मे धत्तमायुर्यज्ञाय धत्तमायुर्यज्ञपतये धत्तं प्राण स्थः प्राणं मे धत्तं प्राणं यज्ञाय धत्तं प्राणं यज्ञपतये धत्तं चक्षु स्थश्चक्षुर्मे धत्तम् चक्षुर्यज्ञय धत्तं चक्षुर्यज्ञपतये धत्तं श्रोत्रं स्थः श्रोत्रं मे धत्तं श्रोत्रं यज्ञाय धत्तं श्रोत्रं यज्ञपतये धत्तम् ९
इति द्वाविंशी कण्डिका