२१

01 प्राग्घोमादङ्गुष्ठेनाङ्गुलिमवगृह्णीयाद्यो न इन्द्रवायू ...{Loading}...

प्राग्घोमादङ्गुष्ठेनाङ्गुलिमवगृह्णीयाद्यो न इन्द्रवायू अभिदासतीति । यदि वापरोऽङ्गुल्याङ्गुष्ठम् १

02 हुते चादित्यमुपतिष्ठते भूरसि ...{Loading}...

हुते चादित्यमुपतिष्ठते भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहीति २

03 अथाध्वर्योः पात्रे प्रतिप्रस्थाता ...{Loading}...

अथाध्वर्योः पात्रे प्रतिप्रस्थाता सम्पातमवनयति । अध्वर्युः प्रतिप्रस्थातः । एतद्वा विपरीतम् ३

04 देवेभ्यस्त्वेत्यादित्यपात्रेण प्रतिप्रस्थातादित्यस्थाल्यां सम्पातमवनयति ...{Loading}...

देवेभ्यस्त्वेत्यादित्यपात्रेण प्रतिप्रस्थातादित्यस्थाल्यां सम्पातमवनयति ४

05 ग्रहमध्वर्युरादाय क्षिप्रं होतारमभिद्रुत्य ...{Loading}...

ग्रहमध्वर्युरादाय क्षिप्रं होतारमभिद्रुत्य मयि वसुरिति ग्रहं होत्रे प्रयच्छति ५

06 एतेनैव होता प्रतिगृह्य ...{Loading}...

एतेनैव होता प्रतिगृह्य दक्षिण ऊरावासाद्य हस्ताभ्यां निगृह्यास्ते ६

07 एवमुत्तराभ्याङ् ग्रहाभ्याम् प्रचरतः ...{Loading}...

एवमुत्तराभ्यां ग्रहाभ्यां प्रचरतः ७

08 आघारपुनर्वषट्कारौ न भवतः ...{Loading}...

आघारपुनर्वषट्कारौ न भवतः ८

09 यथादेवतं सम्प्रैषाः ...{Loading}...

यथादेवतं सम्प्रैषाः ९

10 ग्रहणम् प्रतिनिग्राह्याणामवग्रहणादित्योपस्थानावनयनप्रदानान्युत्तरोत्तरैर्मन्त्रैः ...{Loading}...

ग्रहणं प्रतिनिग्राह्याणामवग्रहणादित्योपस्थानावनयनप्रदानान्युत्तरोत्तरैर्मन्त्रैः १०

11 विभूरसि श्रेष्ठो रश्मीनां ...{Loading}...

विभूरसि श्रेष्ठो रश्मीनां व्यानपा व्यानं मे पाहीति तृतीय आदित्योपस्थानः ११

12 विष्णवुरुक्रमैष ते सोमस्तं ...{Loading}...

विष्णवुरुक्रमैष ते सोमस्तं रक्षस्वेत्यादित्यपात्रेण प्रतिप्रस्थातादित्यस्थालीमपिदधाति १२

13 आश्विनं होत्रे प्रदाय ...{Loading}...

आश्विनं होत्रे प्रदाय हविर्धानं गच्छन्सम्प्रेष्यत्युन्नीयमानेभ्यो ऽनुब्रूहीति १३

14 होतृचमसमुख्यान्नव चमसानुन्नयति ...{Loading}...

होतृचमसमुख्यान्नव चमसानुन्नयति १४

15 द्रोणकलशादुपस्तीर्य पूतभृत उन्नीय ...{Loading}...

द्रोणकलशादुपस्तीर्य पूतभृत उन्नीय द्रोणकलशादभिघारयति १५

16 सर्वचमसानामेष कल्पः ...{Loading}...

सर्वचमसानामेष कल्पः १६

17 धाराग्रहणकाले द्विदेवत्यानाङ् काम्याः ...{Loading}...

धाराग्रहणकाले द्विदेवत्यानां काम्याः कल्पाः १७

18 यदि मन्येत यजमानः ...{Loading}...

यदि मन्येत यजमानः पूर्वो मातिक्रान्तो भ्रातृव्य इति प्रतिप्रस्थानेन पूर्वो गृहीत्वा पूर्वो हुत्वा पूर्वः सादयेत् १८

19 यदि कामयेत समावद्वीर्यमेनम् ...{Loading}...

यदि कामयेत समावद्वीर्यमेनम् भ्रातृव्येण कुर्यामिति प्रबाहुग्गृहीत्वा प्रबाहुक्तिष्ठद्भ्यां होतव्यम् । प्रबाहुग्घुत्वा प्रबाहुक्सादयेयाताम् १९

20 सममित्यर्थः ...{Loading}...

सममित्यर्थः २०

21 यदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या ...{Loading}...

यदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या विश उदूहामीत्यध्वर्युपात्रमुदूह्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति तस्मिन्प्रतिप्रस्थानं सादयेत् २१

22 काम्याश्चेत्पृथक्यात्रैः प्रतिनिग्राह्या गृह्येरन् ...{Loading}...

काम्याश्चेत्पृथक्यात्रैः प्रतिनिग्राह्या गृह्येरन् २२

इत्येकविंशी कण्डिका इति षष्ठः पटलः


  1. TS III.2.10.n. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. MS IV.5.8.671 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XII.21.2. ↩︎

  4. See XII.21.3. ↩︎

  5. See XII.21.5. ↩︎

  6. The following formulae are to be used respectively i. TS III.2.10.b and c. ii. TS III.2.10.0 and p. iii. TS III.2.10.m (see the next Sūtra). iv. TS III.2.10.e and f. v. TS III.2.10. i and k. ↩︎