२०

01 कलश इति कलशम् ...{Loading}...

कलश इति कलशम् । सोम इति सोमम् । अग्निरित्यग्निम् । उप देवा इति देवान् । उप यज्ञ इति यज्ञम् । उप मा होत्रा इति होत्रकान् १

02 ह्वयेतां ह्वयतां ह्वयन्तामिति ...{Loading}...

ह्वयेतां ह्वयतां ह्वयन्तामिति यथालिङ्गं सर्वत्रानुषजति २

03 नमोऽग्नये मखघ्न इत्याहवनीयम् ...{Loading}...

नमोऽग्नये मखघ्न इत्याहवनीयम् । नमो रुद्राय मखघ्न इत्याग्नीध्रीयम् । नम इन्द्राय मखघ्न इति होत्रीयम् ३

04 दृढे स्थः शिथिरे ...{Loading}...

दृढे स्थः शिथिरे समीची इति द्यावापृथिवी उपतिष्ठते । सूर्यं वायुमग्निं यमं सरस्वतीं सदसो द्वाराविति ४

05 पातम् पात्विति यथालिङ्गं ...{Loading}...

पातं पात्विति यथालिङ्गं सर्वत्रानुषजति ५

06 द्रष्ट्रे नम इति ...{Loading}...

द्रष्ट्रे नम इति प्रस्रप्स्यञ्जपति । उपद्रष्ट्रे नम इति प्रसृप्य ६

07 अप्रेण ब्रह्मसदनं यजमानायतनम् ...{Loading}...

अप्रेण ब्रह्मसदनं यजमानायतनम् । पूर्वेण वा ७

08 नमः सदस इति ...{Loading}...

नमः सदस इति सदो नमः सदसस्पतय इति ब्रह्माणं नमः सखीनां पुरोगाणामित्यृत्विजो नमो दिवे नमः पृथिव्या इति द्यावापृथिवी उपस्थायाहे दैधिषव्येत्यायतनात्तृणं निरस्योन्निवत उदुद्वतश्च गेषमित्युपविशति ८

09 पातम् मा द्यावापृथिवी ...{Loading}...

पातं मा द्यावापृथिवी अद्याह्न इत्युपविश्य जपति ९

10 आगन्त पितरः पितृमानिति ...{Loading}...

आगन्त पितरः पितृमानिति दक्षिणार्धं परेक्षते १०

11 उभावेतानि जपतोऽध्वर्युर्यजमानश्च अपि ...{Loading}...

उभावेतानि जपतोऽध्वर्युर्यजमानश्च । अपि वा यजमान एव ११

12 अत्र प्रतिप्रस्थाता सवनीयानासादयति ...{Loading}...

अत्र प्रतिप्रस्थाता सवनीयानासादयति १२

13 तैरध्वर्युः प्रचरति ...{Loading}...

तैरध्वर्युः प्रचरति १३

14 सर्वेषाम् पुरोडाशानाञ् जुह्वान् ...{Loading}...

सर्वेषां पुरोडाशानां जुह्वां दैवतानि समवद्यति । उपभृति सौविष्टकृतानि १४

15 प्रातः प्रातः सावस्येन्द्राय ...{Loading}...

प्रातः प्रातः सावस्येन्द्राय पुरोडाशानामनुब्रूहि प्रातः प्रातःसावस्येन्द्राय पुरोडाशानां प्रेष्येति सम्प्रैषौ । प्रातः प्रातःसावस्येन्द्राय पुरोडाशानामवदीयमानानामनुब्रूहि प्रातः प्रातः सावस्येन्द्राय पुरोडाशान्प्रस्थितान्प्रेष्येति वा १५

16 अग्नयेऽनुब्रूह्यग्नये प्रेष्येति स्विष्टकृतः ...{Loading}...

अग्नयेऽनुब्रूह्यग्नये प्रेष्येति स्विष्टकृतः सम्परिषो १६

17 प्राशित्रमवदायेडान् न यजमानभागम् ...{Loading}...

प्राशित्रमवदायेडां न यजमानभागम् १७

18 होत्र इडां हृत्वा ...{Loading}...

होत्र इडां हृत्वा हविर्धानं गच्छन्सम्प्रेष्यति वायव इन्द्रवायुभ्यामनुब्रूहीति १८

19 उपयामगृहीतोऽसि वाक्षसदसीत्यादित्यपात्रेण प्रतिप्रस्थाता ...{Loading}...

उपयामगृहीतोऽसि वाक्षसदसीत्यादित्यपात्रेण प्रतिप्रस्थाता द्रोणकलशादैन्द्रवायवस्य प्रतिनिग्राह्यं गृहीत्वा न सादयति १९

20 ऐन्द्रवायवमादाथाध्वर्युर्द्रोणकलशाच्च परिप्लवया राजानमुभौ ...{Loading}...

ऐन्द्रवायवमादाथाध्वर्युर्द्रोणकलशाच्च परिप्लवया राजानमुभौ निष्क्रम्य दक्षिणतोऽवस्थाय दक्षिणं परिधिसन्धिमन्ववहृत्याध्वरो यज्ञोऽयमस्तु देवा इति परिप्लवयाघारमाघारयति यथोपांशुर्हुतो भवति २०

21 अत्र सर्वाः सोमाहुतीर्जुहोति ...{Loading}...

अत्र सर्वाः सोमाहुतीर्जुहोति २१

22 यतो मन्येतानभिक्रम्य होष्यामीति ...{Loading}...

यतो मन्येतानभिक्रम्य होष्यामीति तत्तिष्ठन्स्रुचं वायव्यं चमसं वान्वारभ्याश्रावयेत् । ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकर्युआ!दित्यत्यन्तप्रदेशः २२

23 आश्राव्य प्रत्याश्राविते सम्प्रेष्यति ...{Loading}...

आश्राव्य प्रत्याश्राविते सम्प्रेष्यति वायव इन्द्रवायुभ्यां प्रेष्येति २३

24 वषट्कृते जुहोति पुनर्वषट्कृते ...{Loading}...

वषट्कृते जुहोति । पुनर्वषट्कृते जुहुतः २४

25 यदि मन्येत यजमानः ...{Loading}...

यदि मन्येत यजमानः पूर्वो मातिक्रान्तो भ्रातृव्य इति २५

इति विंशी कण्डिका


  1. For the formulae see TS III.2.4.b. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. KS XXVI.12. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XII.2.4. ↩︎ ↩︎ ↩︎

  4. TS III.1.9.3. ↩︎