१९

01 कोऽसि को नामेत्याहवनीयम् ...{Loading}...

कोऽसि को नामेत्याहवनीयम् १

02 सोम त्वां वृणीमह ...{Loading}...

सोम त्वां वृणीमह उद्गातारं नृचक्षसं पारया ण स्वस्तये । विश्वेभ्यो मे रूपेभ्य इति सर्वं राजानम् २

03 बुभूषन्नवेक्षेत ब्रह्मवर्चसकाम आमयाव्यभिचरन्वा ...{Loading}...

बुभूषन्नवेक्षेत । ब्रह्मवर्चसकाम आमयाव्यभिचरन्वा ३

04 शृतङ्कारैर्यजमानः सर्वान्ग्रहानुपतिष्ठते ...{Loading}...

शृतङ्कारैर्यजमानः सर्वान्ग्रहानुपतिष्ठते ४

05 शृतौ स्थः प्राणापानौ ...{Loading}...

शृतौ स्थः प्राणापानौ मे श्रीणीतमित्युपांश्वन्तर्यामौ । शृतोऽसि व्यानं मे श्रीणाहीत्युपांशुसवनम् । शृतोऽसि वाचं मे श्रीणाहीत्यैन्द्रवायवम् । शृतोऽसि दक्षक्रतू मे श्रीणाहीति मैत्रावरुणम् । शृतौ स्थश्चक्षुषी मे श्रीणीतमिति शुक्रामन्थिनौ । शृतोऽसि श्रोत्रं मे श्रीणाहीत्याश्विनम् । शृतोऽस्यात्मानं मे श्रीणाहीत्याग्रयणम् । शृतोऽस्यङ्गानि मे श्रीणाहीत्युक्थ्यम् । शृतोऽस्यायुर्मे श्रीणाहीति ध्रुवम् । शृतमसि तेजो म श्रीणाहीत्याज्यानि । शृतमसि पशून्मे श्रीणाहीति पृषदाज्यम् । शृता स्थ पुष्टिं मे श्रीणीतेति सर्वान्ग्रहान् । प्रजापतेर्जठरमसि शृतोऽसि स मा श्रीणाहीति द्रोणकलशम् । इन्द्रस्य जठरमसि शृतोऽसि स मा श्रीणाहीत्याधवनीयम् । विश्वेषां देवानां जठरमसि शृतोऽसि स मा श्रीणाहीति पूतभृतम् । शृतस्त्वं शृतोऽहं शृतो मे प्राणः शृतो मेऽपानः शृतो मे व्यानः शृतं मे चक्षुः शृतं मे श्रोतं शृता मे वाक् शृतो म आत्मा शृतं मे हविः शृतो मे सोमः शृता मे ग्रहाः । इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने । वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे । वृष्णस्ते वृष्ण्यं शवो वृषा वने वृषा मदे । स त्वं वृषन्वृषेदसि । अश्वो न चक्रदो वृषा सं गा इन्द्रो समर्वतः । वि नो राये दुरो वृधीति सर्वं राजानम् ५

06 अग्निः पवित्रं स ...{Loading}...

अग्निः पवित्रं स मा पुनातु । सोमः पवित्रं स मा पुनातु । सूर्यः पवित्रं स मा पुनातु । उपहूता गाव उपहूतोऽहं गवामित्येतैर्यथालिङ्गमुपस्थाय स्फ्यः स्वस्तिरित्युत्करे वेदिकरणानि परास्योपतिष्ठते ६

07 उप मा द्यावापृथिवी ...{Loading}...

उप मा द्यावापृथिवी इति द्यावापृथिवी । उपास्ताव इति वहिष्पवमानास्तावम् ७

इत्येकोनविंशी कण्डिका


  1. TS III.2.3.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The formula only in the ĀpŚS. ↩︎ ↩︎ ↩︎ ↩︎

  3. TS III.2.3.r. ↩︎ ↩︎ ↩︎