01 आग्नीध्राद्धिष्णियान्विहरति ...{Loading}...
आग्नीध्राद्धिष्णियान्विहरति १
सर्वाष् टीकाः ...{Loading}...
थिते
- The Agnīdhra spreads out the (sacred fires on the) fire-hearths (Dhiṣṇyas) from out of the Āgnīdhrīya(-fire).1
मूलम् ...{Loading}...
आग्नीध्राद्धिष्णियान्विहरति १
02 अङ्गारैर्द्वे सवने शलाकाभिस्तृतीयम् ...{Loading}...
अङ्गारैर्द्वे सवने । शलाकाभिस्तृतीयम् २
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of the (first) two pressings (he does so) by means of the burning coals; at the time of the third, by means of the burning grass-bunches.1
मूलम् ...{Loading}...
अङ्गारैर्द्वे सवने । शलाकाभिस्तृतीयम् २
03 पांसुधिष्णियेषु निवपति ...{Loading}...
पांसुधिष्णियेषु निवपति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- He throws (the burning coals or burning grass bunches) on the fire-hearths made out of earth.1
मूलम् ...{Loading}...
पांसुधिष्णियेषु निवपति ३
04 तेनानुपूर्व्येण यथान्युप्ता भवन्ति ...{Loading}...
तेनानुपूर्व्येण यथान्युप्ता भवन्ति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- (He does so in that order) in which they were prepared.1
मूलम् ...{Loading}...
तेनानुपूर्व्येण यथान्युप्ता भवन्ति ४
05 प्रचरण्याम् पञ्चगृहीतङ् गृहीत्वा ...{Loading}...
प्रचरण्यां पञ्चगृहीतं गृहीत्वा द्रोणकलशाच्च परिप्लवया राजानं पुरस्तात्प्रत्यङ्ङासीनो धिष्णियान्व्याघारयति तैरेव मन्त्रैः । तूष्णीं वा ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Having taken five-times scooped ghee in the Pracaraṇī (additional)(-ladle) and the king (Soma-juice)2 from the Droṇakalaśa (into a vessel), by means of the scooping ladle sitting towards the east (of each fire-hearth) with his face to the west,3 (the Adhvaryu) pours the Āghāra-libations upon the fire hearths with the same formulae (with which the hearths were prepared).4 Or he (pours) silently (without any formula).
मूलम् ...{Loading}...
प्रचरण्यां पञ्चगृहीतं गृहीत्वा द्रोणकलशाच्च परिप्लवया राजानं पुरस्तात्प्रत्यङ्ङासीनो धिष्णियान्व्याघारयति तैरेव मन्त्रैः । तूष्णीं वा ५
06 आहवनीयमाग्नीध्रीयं होत्रीयम् मार्जालीयमिति ...{Loading}...
आहवनीयमाग्नीध्रीयं होत्रीयं मार्जालीयमिति सोमेन । आज्येनेतरान् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- (He pours) Soma (-juice) on the Āhavanīya, Āgnīdhrīya (-hearth), Hotriya (-hearth) and the Mārjālīya (-hearth); ghee on the other hearths.
मूलम् ...{Loading}...
आहवनीयमाग्नीध्रीयं होत्रीयं मार्जालीयमिति सोमेन । आज्येनेतरान् ६
07 यज्ञस्य सन्ततिरसि यज्ञस्य ...{Loading}...
यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्तत्यै स्तृणामि सन्तत्यै त्वा यज्ञस्येति गार्हपत्यात्प्रक्रम्य सन्ततमनुपृष्ठ्यं बर्हिः स्तृणात्याहवनीयात् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With yajñasya santatirasi…1 (the Agnīdhra) scatters grass continuously along the Pr̥ṣṭhyā-line beginnng from the Gārhapatya upto the Āhavanīya.
मूलम् ...{Loading}...
यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्तत्यै स्तृणामि सन्तत्यै त्वा यज्ञस्येति गार्हपत्यात्प्रक्रम्य सन्ततमनुपृष्ठ्यं बर्हिः स्तृणात्याहवनीयात् ७
08 वैष्णव्यर्चा पुनरेत्य यजमानो ...{Loading}...
वैष्णव्यर्चा पुनरेत्य यजमानो राजानमुपतिष्ठते विष्णो त्वं नो अन्तम इति ८
मूलम् ...{Loading}...
वैष्णव्यर्चा पुनरेत्य यजमानो राजानमुपतिष्ठते विष्णो त्वं नो अन्तम इति ८
09 एतयैवाध्वर्युः पात्राणि सम्मृश्याश्विनङ् ...{Loading}...
एतयैवाध्वर्युः पात्राणि सम्मृश्याश्विनं गृह्णाति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- With the same (verse) having touched (Soma-) vessels, the Adhvaryu takes the āśvina (-scoop).
मूलम् ...{Loading}...
एतयैवाध्वर्युः पात्राणि सम्मृश्याश्विनं गृह्णाति ९
10 या वाङ् कशेति ...{Loading}...
या वां कशेति ग्रहणसादनौ १०
मूलम् ...{Loading}...
या वां कशेति ग्रहणसादनौ १०
11 द्रोणकलशादधाराग्रहाः परिप्लवया गृह्यन्ते ...{Loading}...
द्रोणकलशादधाराग्रहाः परिप्लवया गृह्यन्ते । वचनादन्यतः ११
मूलम् ...{Loading}...
द्रोणकलशादधाराग्रहाः परिप्लवया गृह्यन्ते । वचनादन्यतः ११
12 त्रिवृता यूपम् परिवीयाग्नेयं ...{Loading}...
त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Having wound round the sacrificial post by means of a tripple cord, he dedicates the Savanīya animal for Agni;1
मूलम् ...{Loading}...
त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोति १२
13 ऐन्द्राग्नमुक्थ्ये ऐन्द्रं षोडशिनि ...{Loading}...
ऐन्द्राग्नमुक्थ्ये । ऐन्द्रं षोडशिनि । सारस्वतमतिरात्रे १३
सर्वाष् टीकाः ...{Loading}...
थिते
- one for Indra-and-Agni in the Ukthya; one for Indra in the Ṣoḍaśin and one for Sarasvatī in the Atirātra.
मूलम् ...{Loading}...
ऐन्द्राग्नमुक्थ्ये । ऐन्द्रं षोडशिनि । सारस्वतमतिरात्रे १३
14 समभ्युच्चयवदेके समामनन्ति आग्नेयमग्निष्टोम ...{Loading}...
समभ्युच्चयवदेके समामनन्ति । आग्नेयमग्निष्टोम आलभते । ऐन्द्राग्नमुक्थ्ये द्वितीयम् । ऐन्द्रं वृष्णिं षोडशिनि तृतीयम् । सारस्वतीं मेषीं चतुर्थीमतिरात्रे १४
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some (ritualists) these animals should be killed not separately in the various sacrifices but rather in addition (to the preceding one) in each successive sacrifice. Thus in the Agniṣṭoma they seize (a he-goat) for Agni; in the Ukthya (a he-goat) for Indra-and Agni as the second; in the Ṣodaśin a ram for Indra as the third; in the Atirātra a ewe for Sarasvatī as the fourth.1
मूलम् ...{Loading}...
समभ्युच्चयवदेके समामनन्ति । आग्नेयमग्निष्टोम आलभते । ऐन्द्राग्नमुक्थ्ये द्वितीयम् । ऐन्द्रं वृष्णिं षोडशिनि तृतीयम् । सारस्वतीं मेषीं चतुर्थीमतिरात्रे १४
15 आ वपायाः कृत्वा ...{Loading}...
आ वपायाः कृत्वा हुतायां वपायां मार्जयित्वा प्रातःसवनाय सम्प्रसर्पन्ति म् १५
मूलम् ...{Loading}...
आ वपायाः कृत्वा हुतायां वपायां मार्जयित्वा प्रातःसवनाय सम्प्रसर्पन्ति म् १५
16 प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते ...{Loading}...
प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते १६
मूलम् ...{Loading}...
प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते १६
17 द्वौ समुद्राविति पूतभृदाधवनीयौ ...{Loading}...
द्वौ समुद्राविति पूतभृदाधवनीयौ १७
सर्वाष् टीकाः ...{Loading}...
थिते
- With dvau samudrau… (they look) at Pūtabhr̥t and Ādhvanīya;
मूलम् ...{Loading}...
द्वौ समुद्राविति पूतभृदाधवनीयौ १७
18 द्वे द्रधसी इति ...{Loading}...
द्वे द्रधसी इति द्रोणकलशम् १८
सर्वाष् टीकाः ...{Loading}...
थिते
- with dve dradhasī… at the Droṇakalaśa;
मूलम् ...{Loading}...
द्वे द्रधसी इति द्रोणकलशम् १८
19 परिभूरग्निमिति सर्वं राजानम् ...{Loading}...
परिभूरग्निमिति सर्वं राजानम् १९
सर्वाष् टीकाः ...{Loading}...
थिते
- with paribhūragnim… all the king (Soma);
मूलम् ...{Loading}...
परिभूरग्निमिति सर्वं राजानम् १९
20 प्राणाय म इत्युपांशुम् ...{Loading}...
प्राणाय म इत्युपांशुम् । अपानाय म इत्यन्तर्यामम् । व्यानाय म इत्युपांशुसवनम् । वाचे म इत्यैन्द्रवायवम् । दक्षक्रतुभ्यां म इति मैत्रावरुणम् । चक्षुर्भ्यां म इति शुक्रामन्थिनौ । श्रोत्राय म इत्याशिनम् । आत्मने म इत्याग्रयणम् । अङ्गेभ्यो म इत्युक्थ्यम् । आयुषे म इति ध्रुवम् । तेजसे मे वर्चोदा वर्चसे पवस्वेत्त्याज्यानि । पशुभ्यो मे वर्चोदा वर्चसे पवस्वेति पृषदाज्यम् । पुष्ट्यै मे वर्चोदाः पवध्वमिति सर्वान्ग्रहान् । स्तनाभ्यां मे वर्चोदौ वर्चसे मे पवेथामित्यृतुपात्रे । तेजसे म ओजसे म वर्चसे मे वीर्याय मे वर्चोदा वर्चसे पवस्वेत्येतैः प्रतिमन्त्रमतिग्राह्यान्षोडशिनमिति । विष्णोर्जठरमसीति द्रोणकलशम् । इन्द्रस्येत्याधवनीयम् । विश्वेषां देवानामिति पूतभृतम् २०
सर्वाष् टीकाः ...{Loading}...
थिते
- with prāṇāya me … the Upāṁśu (-scoop); with apānāya me… the Antaryāma (-scoop); with vyānāya me … the Upāṁśusavana(-stone); with vāce me … the Aindravāyava (-scoop), with dakṣakratubhyāṁ me.., the Maitrāvaruṇa (-scoop); with cakṣurbhyaṁ me… the Śukra and manthin (-scoops); with śrotrāya me… the Āśvina (-scoop), with ātmane me… the Āgrayaṇa (-scoop), with aṅgebhyo me… the Ukthya (-scoop), with āyuṣe me.. the Dhruva (scoop), with tejase me.. the ghees (in the ladles), with paśubhyo me… the spotted ghee (Pr̥ṣadājya: mixture of curds and ghee); with puṣṭyai me varcodāḥ all the scoops, with stanābhyāṁ me varcodau… the R̥tucups, with tejase me.. ojase me… varcase me.. and vīryāya me… the three Atigrāhya (-scoops) and the Ṣodaśin (-scoop) respectively each with one of these formulae, with viṣṇorjatharamasi… the Droṇakalaśa, with indrasya… the Āhavanīya, with viśveṣāṁ devānām… the Pūtabhr̥t.1
मूलम् ...{Loading}...
प्राणाय म इत्युपांशुम् । अपानाय म इत्यन्तर्यामम् । व्यानाय म इत्युपांशुसवनम् । वाचे म इत्यैन्द्रवायवम् । दक्षक्रतुभ्यां म इति मैत्रावरुणम् । चक्षुर्भ्यां म इति शुक्रामन्थिनौ । श्रोत्राय म इत्याशिनम् । आत्मने म इत्याग्रयणम् । अङ्गेभ्यो म इत्युक्थ्यम् । आयुषे म इति ध्रुवम् । तेजसे मे वर्चोदा वर्चसे पवस्वेत्त्याज्यानि । पशुभ्यो मे वर्चोदा वर्चसे पवस्वेति पृषदाज्यम् । पुष्ट्यै मे वर्चोदाः पवध्वमिति सर्वान्ग्रहान् । स्तनाभ्यां मे वर्चोदौ वर्चसे मे पवेथामित्यृतुपात्रे । तेजसे म ओजसे म वर्चसे मे वीर्याय मे वर्चोदा वर्चसे पवस्वेत्येतैः प्रतिमन्त्रमतिग्राह्यान्षोडशिनमिति । विष्णोर्जठरमसीति द्रोणकलशम् । इन्द्रस्येत्याधवनीयम् । विश्वेषां देवानामिति पूतभृतम् २०
इत्यष्टादशी कण्डिका