१८

01 आग्नीध्राद्धिष्णियान्विहरति …{Loading}…

आग्नीध्राद्धिष्णियान्विहरति १

02 अङ्गारैर्द्वे सवने शलाकाभिस्तृतीयम् …{Loading}…

अङ्गारैर्द्वे सवने । शलाकाभिस्तृतीयम् २

03 पांसुधिष्णियेषु निवपति …{Loading}…

पांसुधिष्णियेषु निवपति ३

04 तेनानुपूर्व्येण यथान्युप्ता भवन्ति …{Loading}…

तेनानुपूर्व्येण यथान्युप्ता भवन्ति ४

05 प्रचरण्याम् पञ्चगृहीतङ् गृहीत्वा …{Loading}…

प्रचरण्यां पञ्चगृहीतं गृहीत्वा द्रोणकलशाच्च परिप्लवया राजानं पुरस्तात्प्रत्यङ्ङासीनो धिष्णियान्व्याघारयति तैरेव मन्त्रैः । तूष्णीं वा ५

06 आहवनीयमाग्नीध्रीयं होत्रीयम् मार्जालीयमिति …{Loading}…

आहवनीयमाग्नीध्रीयं होत्रीयं मार्जालीयमिति सोमेन । आज्येनेतरान् ६

07 यज्ञस्य सन्ततिरसि यज्ञस्य …{Loading}…

यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्तत्यै स्तृणामि सन्तत्यै त्वा यज्ञस्येति गार्हपत्यात्प्रक्रम्य सन्ततमनुपृष्ठ्यं बर्हिः स्तृणात्याहवनीयात् ७

08 वैष्णव्यर्चा पुनरेत्य यजमानो …{Loading}…

वैष्णव्यर्चा पुनरेत्य यजमानो राजानमुपतिष्ठते विष्णो त्वं नो अन्तम इति ८

09 एतयैवाध्वर्युः पात्राणि सम्मृश्याश्विनङ् …{Loading}…

एतयैवाध्वर्युः पात्राणि सम्मृश्याश्विनं गृह्णाति ९

10 या वाङ् कशेति …{Loading}…

या वां कशेति ग्रहणसादनौ १०

11 द्रोणकलशादधाराग्रहाः परिप्लवया गृह्यन्ते …{Loading}…

द्रोणकलशादधाराग्रहाः परिप्लवया गृह्यन्ते । वचनादन्यतः ११

12 त्रिवृता यूपम् परिवीयाग्नेयं …{Loading}…

त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोति १२

13 ऐन्द्राग्नमुक्थ्ये ऐन्द्रं षोडशिनि …{Loading}…

ऐन्द्राग्नमुक्थ्ये । ऐन्द्रं षोडशिनि । सारस्वतमतिरात्रे १३

14 समभ्युच्चयवदेके समामनन्ति आग्नेयमग्निष्टोम …{Loading}…

समभ्युच्चयवदेके समामनन्ति । आग्नेयमग्निष्टोम आलभते । ऐन्द्राग्नमुक्थ्ये द्वितीयम् । ऐन्द्रं वृष्णिं षोडशिनि तृतीयम् । सारस्वतीं मेषीं चतुर्थीमतिरात्रे १४

15 आ वपायाः कृत्वा …{Loading}…

आ वपायाः कृत्वा हुतायां वपायां मार्जयित्वा प्रातःसवनाय सम्प्रसर्पन्ति म् १५

16 प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते …{Loading}…

प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते १६

17 द्वौ समुद्राविति पूतभृदाधवनीयौ …{Loading}…

द्वौ समुद्राविति पूतभृदाधवनीयौ १७

18 द्वे द्रधसी इति …{Loading}…

द्वे द्रधसी इति द्रोणकलशम् १८

19 परिभूरग्निमिति सर्वं राजानम् …{Loading}…

परिभूरग्निमिति सर्वं राजानम् १९

20 प्राणाय म इत्युपांशुम् …{Loading}…

प्राणाय म इत्युपांशुम् । अपानाय म इत्यन्तर्यामम् । व्यानाय म इत्युपांशुसवनम् । वाचे म इत्यैन्द्रवायवम् । दक्षक्रतुभ्यां म इति मैत्रावरुणम् । चक्षुर्भ्यां म इति शुक्रामन्थिनौ । श्रोत्राय म इत्याशिनम् । आत्मने म इत्याग्रयणम् । अङ्गेभ्यो म इत्युक्थ्यम् । आयुषे म इति ध्रुवम् । तेजसे मे वर्चोदा वर्चसे पवस्वेत्त्याज्यानि । पशुभ्यो मे वर्चोदा वर्चसे पवस्वेति पृषदाज्यम् । पुष्ट्यै मे वर्चोदाः पवध्वमिति सर्वान्ग्रहान् । स्तनाभ्यां मे वर्चोदौ वर्चसे मे पवेथामित्यृतुपात्रे । तेजसे म ओजसे म वर्चसे मे वीर्याय मे वर्चोदा वर्चसे पवस्वेत्येतैः प्रतिमन्त्रमतिग्राह्यान्षोडशिनमिति । विष्णोर्जठरमसीति द्रोणकलशम् । इन्द्रस्येत्याधवनीयम् । विश्वेषां देवानामिति पूतभृतम् २०

इत्यष्टादशी कण्डिका


  1. Cf. TS VI.3.1.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. TS VI.3.1.3-4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS VI.3.1.5. ↩︎ ↩︎

  4. Cf. ŚB IV.4.2.7. ↩︎