१७

01 अध्वर्युम् प्रस्तोतान्वारभते प्रस्तोतारम् ...{Loading}...

अध्वर्युं प्रस्तोतान्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गातोद्गातारं ब्रह्मा ब्रह्माणं यजमानः १

02 यद्यु वै स्वयं ...{Loading}...

यद्यु वै स्वयं होता यजमानः स्यात्सर्पेदेव । औपगात्रं ह्यस्येति बृह्वृचब्राह्मणं भवति २

03 त्सरन्त इव रेहाणा ...{Loading}...

त्सरन्त इव रेहाणा इव न्यङ्ङिव शीर्षाणि कृत्वा सर्पन्ति ३

04 मृग इव हि ...{Loading}...

मृग इव हि यज्ञः । पूर्वोऽध्वर्युर्बर्हिर्मुष्टिं धून्वन्सर्पति वागग्रेगा अग्र एत्विति गायत्रः पन्था वसवो देवतावृकेणापरिपरेण पथा स्वस्ति वसूनशीयेत् ४

05 चात्वालमवेक्षमाणाः स्तुवते उत्तरे ...{Loading}...

चात्वालमवेक्षमाणाः स्तुवते । उत्तरे वा वेद्यंसे ५

06 अथाध्वर्युः स्तोत्रमुपाकरोति ...{Loading}...

अथाध्वर्युः स्तोत्रमुपाकरोति ६

वायुर्हिर्तेति प्रस्तोत्रे बर्हिर् ...{Loading}...

वायुर्हिर्तेति प्रस्तोत्रे बर्हिर्मुष्टिं प्रयच्छति ७

08 सर्वेषु पवमानेष्वेवमुपाकरणः ...{Loading}...

सर्वेषु पवमानेष्वेवमुपाकरणः ८

09 असर्ज्यसर्जि वागसर्ज्यैन्द्रं सहोऽसर्ज्युपावर्तध्वमिति ...{Loading}...

असर्ज्यसर्जि वागसर्ज्यैन्द्रं सहोऽसर्ज्युपावर्तध्वमिति बर्हिर्भ्यामन्यानि पवमानेभ्यः स्तोत्राण्युपाकरोति ९

10 तस्माद्ब्राह्मणेन बहिष्पवमान उपसद्यः ...{Loading}...

तस्माद्ब्राह्मणेन बहिष्पवमान उपसद्यः । पवित्रं हि । यं द्विष्यात्तं बहिष्पवमानात्परिबाधेतेति विज्ञायते १०

11 स्तूयमानं यजमान उपगायति ...{Loading}...

स्तूयमानं यजमान उपगायति । चत्वारोऽवरार्ध्या उपगातारः ११

12 नाध्वर्युः ...{Loading}...

नाध्वर्युः १२

13 वस्व्यै हिङ्कुरु तस्यै ...{Loading}...

वस्व्यै हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्ताद्बहिष्पवमानाद्यजमानो जपति १३

14 दशहोतारञ् च व्याचष्टे ...{Loading}...

दशहोतारं च व्याचष्टे । स्तूयमाने च दशहोतारं जपति १४

15 श्येनोऽसि गायत्रच्छन्दा इति ...{Loading}...

श्येनोऽसि गायत्रच्छन्दा इति मध्यमायां च स्तोत्रीयायामन्वारोहम् १५

16 द्वितीये पवमाने द्वितीयेन ...{Loading}...

द्वितीये पवमाने द्वितीयेन मन्त्रेण । तृतीये तृतीयेन १६

17 अथात्यन्तप्रदेशः स्तुतस्य स्तुतमसीति ...{Loading}...

अथात्यन्तप्रदेशः । स्तुतस्य स्तुतमसीति स्तोत्रमनुमन्त्रयते । शस्त्रस्य शस्त्रमसीति शस्त्रम् १७

18 इन्द्रियावन्तो वनामह इत्युभयत्रानुषजति ...{Loading}...

इन्द्रियावन्तो वनामह इत्युभयत्रानुषजति १८

19 स्तुतेऽध्वर्युः सम्प्रेष्यत्यग्नीदग्नीन्विहर बर्हि ...{Loading}...

स्तुतेऽध्वर्युः सम्प्रेष्यत्यग्नीदग्नीन्विहर बर्हि स्तृणाहि पुरोडाशाँ अलङ्कुर्विति १९

20 अथैकेषाम् स्तुत उत्तिष्ठन्नाहाग्नीदग्नीन्विहर ...{Loading}...

अथैकेषाम् । स्तुत उत्तिष्ठन्नाहाग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशाँ अलङ्कुरु प्रतिप्रस्थातः पशुनेहीति २०

21 सम्प्रैषवत्कुर्वन्ति ...{Loading}...

सम्प्रैषवत्कुर्वन्ति २१

इति सप्तदशी कण्डिका इति पञ्चमः पटलः


  1. In a sacrificial session. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XII.17.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cp. KB XII.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. TS III.1.10.8. ↩︎

  5. This formula is not found in any Saṁhitā-text; cp. XIII.2.8; 11.1. ↩︎