१६

01 मूर्धानन् दिवो अरतिम् ...{Loading}...

मूर्धानं दिवो अरतिं पृथिव्या इति स्थाल्या ध्रुवं पूर्णं गृह्णाति १

02 अल्पङ् गृह्णीयाद्यङ् कामयेत ...{Loading}...

अल्पं गृह्णीयाद्यं कामयेत प्रमायुकः स्यादिति । उपर्यर्धं यं कामयेतोत्तरमायुरियादिति २

03 एष ते योनिरग्नये ...{Loading}...

एष ते योनिरग्नये त्वा वैश्वानरायेत्यायतने हिरण्ये सादयेदायुष्कामस्य ३

04 तं राजपुत्रो गोपायत्यावनयनात् ...{Loading}...

तं राजपुत्रो गोपायत्यावनयनात् ४

05 यदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या ...{Loading}...

यदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या विश उत्खिदामीति ध्रुवमुत्खिद्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति तत्रैव पुनः सादयेत् ५

06 यदेवङ् कुर्यादायुः प्रजानां ...{Loading}...

यदेवं कुर्यादायुः प्रजानां विचालयेत् । तृणमेतेन मन्त्रेणोपर्युपर्यतिहरेत् ६

07 यधभिचरेइदमहममुष्यामुष्यायणस्यायुः प्रवर्तयामीति ध्रुवम् ...{Loading}...

यधभिचरेइदमहममुष्यामुष्यायणस्यायुः प्रवर्तयामीति ध्रुवं प्रवर्तयेत् ७

08 ध्रुवन् त्वा ध्रुवक्षितिममुमा ...{Loading}...

ध्रुवं त्वा ध्रुवक्षितिममुमा स्थानाच्च्यावयामीति वा व्यङ्गयेत् ८

09 अत्र धारा विरमति ...{Loading}...

अत्र धारा विरमति ९

10 प्रपीड्य पवित्रन् निदधाति ...{Loading}...

प्रपीड्य पवित्रं निदधाति १०

11 एकधनानां यथार्थं सर्वाश्च ...{Loading}...

एकधनानां यथार्थं सर्वाश्च मैत्रावरुणचमसीया आधवनीयेऽवनीय पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तमसर्वं पूतभृत्यवनीयोपयामगृहीतोऽसि प्रजापतये त्वेति द्रोणकलशमभिमृशेत् । इन्द्राय त्वेत्याधवनीयम् । विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतम् ११

12 ते पवमानग्रहाः ...{Loading}...

ते पवमानग्रहाः १२

13 पुरस्तादुपयामाः सर्वे ...{Loading}...

पुरस्तादुपयामाः सर्वे १३

14 पञ्चहोत्रा यजमानः सर्वान्ग्रहानभिमृशति ...{Loading}...

पञ्चहोत्रा यजमानः सर्वान्ग्रहानभिमृशति १४

15 द्रप्सश्चस्कन्द यस्ते द्रप्सो ...{Loading}...

द्रप्सश्चस्कन्द यस्ते द्रप्सो यो द्रप्सो यस्ते द्रप्स इत्येतैः प्रतिमन्त्रं वैप्रुषान्होमाञ्जुहोति १५

16 प्रथमं सर्वत्रानुषक्तमुत्तरांस्त्रीन्वहृताननुसवनमेके समामनन्ति ...{Loading}...

प्रथमं सर्वत्रानुषक्तमुत्तरांस्त्रीन्वहृताननुसवनमेके समामनन्ति १६

17 सप्तहोतारम् मनसानुद्रुत्याहवनीये सग्रहं ...{Loading}...

सप्तहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वोदञ्चः प्रह्वा बहिष्पवमानाय पञ्चर्त्विजः समन्वारब्धाः सर्पन्ति १७

इति षोडशी कण्डिका


  1. TS I.4.13.a-b. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XII.2.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS III.2.1.3. ↩︎ ↩︎