१५

01 मर्काय त्वेति द्वेष्यस्य ...{Loading}...

मर्काय त्वेति द्वेष्यस्य १

02 यदि कामयेत यो ...{Loading}...

यदि कामयेत यो ग्रामे तं ग्रामान्निरूहेयं यो बहिर्ग्रामात्तं ग्रामे कुर्यामितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या विश उदूहामीति शुक्रमुदूह्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति तस्मिन्मन्थिनं सादयेत् २

03 ये देवा दिवीत्युपरिष्टादुपयामया ...{Loading}...

ये देवा दिवीत्युपरिष्टादुपयामया पुरस्तादुपयामेन वा यजुषा द्वाभ्यां धाराभ्यां स्थाल्याग्रयणं गृह्णाति ३

04 य आग्रयणस्थाल्यां सोमस्तमन्यस्मिन्पात्र ...{Loading}...

य आग्रयणस्थाल्यां सोमस्तमन्यस्मिन्पात्र आनीय तां द्वितीयां धारां करोति ४

05 त्रिंशत्त्रयश्चेति रुग्णवत्यर्चा भ्रातृव्यवतोऽभिचरतो ...{Loading}...

त्रिंशत्त्रयश्चेति रुग्णवत्यर्चा भ्रातृव्यवतोऽभिचरतो वा गृह्णीयात् ५

06 विदद्यती सरमा रुग्णमद्रेर्महि ...{Loading}...

विदद्यती सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्रियक्कः । अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गादिति वाभिचरतः ६

07 आग्रयणङ् गृहीत्वा त्रिर्हिङ्कृत्य ...{Loading}...

आग्रयणं गृहीत्वा त्रिर्हिङ्कृत्य वाचं विसृजते ७

08 सोमः पवते सोमः ...{Loading}...

सोमः पवते सोमः पवते सोमः पवते सुभूताय पवते ब्रह्मवर्चसाय पवतेऽस्मै ब्रह्मणे पवतेऽस्मै क्षत्राय पवतेऽस्यै विशे पवतेऽद्भ्यः पवत ओषधीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवतेऽस्मै सुन्वते यजमानाय पवते मह्यं ज्यैष्ठ्याय पवते । यथा देवेभ्योऽपवथा एवं मह्यं पवस्वेति त्रिरुद्वदति शनैरुच्चैरथ सूच्चैः ८

09 एष ते योनिर्विश्वेभ्यस्त्वा ...{Loading}...

एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयित्वा त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णाति । आग्नेयमैन्द्रं सौर्यमिति ९

10 अग्न आयूंष्युत्तिष्ठंस्तरणिरिति ग्रहणसादनाः ...{Loading}...

अग्न आयूंष्युत्तिष्ठंस्तरणिरिति ग्रहणसादनाः १०

11 स्थाल्योक्थ्यङ् गृह्णाति उपयामगृहीतोऽसीन्द्राय ...{Loading}...

स्थाल्योक्थ्यं गृह्णाति । उपयामगृहीतोऽसीन्द्राय त्वा बृहद्वते वयस्वत इति ग्रहणसादनौ ११

इति पञ्चदशी कण्डिका


  1. TS I.4.9.b.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.10.b. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS VI.4.11.43; cp. MS IV.6.4. See also XIII.2.1.; XIII. 10.11. ↩︎ ↩︎ ↩︎

  4. See XII.1.14. ↩︎ ↩︎