01 मर्काय त्वेति द्वेष्यस्य …{Loading}…
मर्काय त्वेति द्वेष्यस्य १
थिते
- In the case of a sacrificer whom (The Adhvaryu) hates he (the Adhvaryu) deposits it with … markāya tvā.1
मर्काय त्वेति द्वेष्यस्य १
02 यदि कामयेत यो …{Loading}…
यदि कामयेत यो ग्रामे तं ग्रामान्निरूहेयं यो बहिर्ग्रामात्तं ग्रामे कुर्यामितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या विश उदूहामीति शुक्रमुदूह्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति तस्मिन्मन्थिनं सादयेत् २
थिते
- If he desires, “I would throw out him who is (living) in the village and would place him who is outside the village,” then in that case having removed the Śukra (-scoop) (which has been already deosited in its place), with (the formula), “Here I remove N.N., of N.N. family, the son of N.N., from N.N. people” he should deposit the Manthin (-scoop) on that place with (the formula), “Here I place the N.N., of N.N. family, the son of N.N., among the N.N. people".1
यदि कामयेत यो ग्रामे तं ग्रामान्निरूहेयं यो बहिर्ग्रामात्तं ग्रामे कुर्यामितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या विश उदूहामीति शुक्रमुदूह्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति तस्मिन्मन्थिनं सादयेत् २
03 ये देवा दिवीत्युपरिष्टादुपयामया …{Loading}…
ये देवा दिवीत्युपरिष्टादुपयामया पुरस्तादुपयामेन वा यजुषा द्वाभ्यां धाराभ्यां स्थाल्याग्रयणं गृह्णाति ३

04 य आग्रयणस्थाल्यां सोमस्तमन्यस्मिन्पात्र …{Loading}…
य आग्रयणस्थाल्यां सोमस्तमन्यस्मिन्पात्र आनीय तां द्वितीयां धारां करोति ४
थिते
- Having poured out the Soma-juice which is in the Āgrayaṇa-vessel, in another vessel, he makes it the second stream.1
य आग्रयणस्थाल्यां सोमस्तमन्यस्मिन्पात्र आनीय तां द्वितीयां धारां करोति ४
05 त्रिंशत्त्रयश्चेति रुग्णवत्यर्चा भ्रातृव्यवतोऽभिचरतो …{Loading}…
त्रिंशत्त्रयश्चेति रुग्णवत्यर्चा भ्रातृव्यवतोऽभिचरतो वा गृह्णीयात् ५

06 विदद्यती सरमा रुग्णमद्रेर्महि …{Loading}…
विदद्यती सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्रियक्कः । अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गादिति वाभिचरतः ६

07 आग्रयणङ् गृहीत्वा त्रिर्हिङ्कृत्य …{Loading}…
आग्रयणं गृहीत्वा त्रिर्हिङ्कृत्य वाचं विसृजते ७

08 सोमः पवते सोमः …{Loading}…
सोमः पवते सोमः पवते सोमः पवते सुभूताय पवते ब्रह्मवर्चसाय पवतेऽस्मै ब्रह्मणे पवतेऽस्मै क्षत्राय पवतेऽस्यै विशे पवतेऽद्भ्यः पवत ओषधीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवतेऽस्मै सुन्वते यजमानाय पवते मह्यं ज्यैष्ठ्याय पवते । यथा देवेभ्योऽपवथा एवं मह्यं पवस्वेति त्रिरुद्वदति शनैरुच्चैरथ सूच्चैः ८

09 एष ते योनिर्विश्वेभ्यस्त्वा …{Loading}…
एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयित्वा त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णाति । आग्नेयमैन्द्रं सौर्यमिति ९
थिते
- With eṣa te yoniḥ…[61] having deposited (the Āgrayaṇa scoop), he takes three additional scoops in the Agniṣṭoma viz. Āgneya, Aindra and Saurya.
एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयित्वा त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णाति । आग्नेयमैन्द्रं सौर्यमिति ९
10 अग्न आयूंष्युत्तिष्ठंस्तरणिरिति ग्रहणसादनाः …{Loading}…
अग्न आयूंष्युत्तिष्ठंस्तरणिरिति ग्रहणसादनाः १०

11 स्थाल्योक्थ्यङ् गृह्णाति उपयामगृहीतोऽसीन्द्राय …{Loading}…
स्थाल्योक्थ्यं गृह्णाति । उपयामगृहीतोऽसीन्द्राय त्वा बृहद्वते वयस्वत इति ग्रहणसादनौ ११

इति पञ्चदशी कण्डिका