१३

01 पवित्रस्य यजमानो नाभिङ् ...{Loading}...

पवित्रस्य यजमानो नाभिं कृत्वा तस्मिन्होतृचमसेन धारां स्रावयति १

02 उदचनेनोन्नेताधवनीयाद्धोतृचमस आनयति ...{Loading}...

उदचनेनोन्नेताधवनीयाद्धोतृचमस आनयति २

03 सन्तता धारा स्रावयितव्या ...{Loading}...

सन्तता धारा स्रावयितव्या । कामो हास्य समर्धुको भवतीति विज्ञायते ३

04 यन् द्विष्यात्तस्य विच्छिन्द्यात् ...{Loading}...

यं द्विष्यात्तस्य विच्छिन्द्यात् ४

05 धाराया अन्तर्यामङ् गृह्णाति ...{Loading}...

धाराया अन्तर्यामं गृह्णाति । सर्वांश्चातो ग्रहाना ध्रुवात् ५

06 समानब्राह्मणावुपांश्वन्तर्यामौ साभिचरणिकौ ...{Loading}...

समानब्राह्मणावुपांश्वन्तर्यामौ साभिचरणिकौ ६

07 एतावन्नाना उपयामगृहीतोऽस्यन्तर्यच्छेति गृहीत्वोत्तरेण ...{Loading}...

एतावन्नाना । उपयामगृहीतोऽस्यन्तर्यच्छेति गृहीत्वोत्तरेण होतारमतिक्रामति । येन वा होता प्रतिपादयेदुत्तरतोऽवस्थायोत्तरं परिधिसन्धिमन्ववहृत्योत्तरार्धे जुहोति ७

08 विपरीतौ देशावेके समामनन्ति ...{Loading}...

विपरीतौ देशावेके समामनन्ति ८

09 असर्वमाग्रयणस्थाल्यां सम्पातमवनीयैष ते ...{Loading}...

असर्वमाग्रयणस्थाल्यां सम्पातमवनीयैष ते योनिरपानाय त्वेत्यरिक्तं पात्रमायतने सादयित्वा व्यानाय त्वेति ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणामुखं संस्पृष्टं पात्राभ्याम् ९

10 यङ् कामयेत प्रमायुकः ...{Loading}...

यं कामयेत प्रमायुकः स्यादित्यसंस्पृष्टौ तस्येत्युक्तम् १०

11 नानुदिते सूर्य उपांश्वन्तर्यामौ ...{Loading}...

नानुदिते सूर्य उपांश्वन्तर्यामौ जुहुयात् ११

12 यदि त्वरेतानुदित उपांशुञ् ...{Loading}...

यदि त्वरेतानुदित उपांशुं जुहुयादुदितेऽन्तर्यामम् १२

13 उभावनुदिते होतव्यावित्येके ...{Loading}...

उभावनुदिते होतव्यावित्येके १३

इति त्रयोदशी कण्डिका इति चतुर्थः पटलः


  1. See X.26.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Not known. ↩︎ ↩︎ ↩︎ ↩︎

  3. See XII.1.8. ↩︎ ↩︎

  4. TS 1.4.3.h.a. ↩︎ ↩︎

  5. See XII.1.9. ↩︎

  6. TS 1.40.3.h.b. ↩︎