१२

01 अदाभ्यांशुमुपांशुपावनौ चापिसृज्य सर्वेऽध्वर्यवो ...{Loading}...

अदाभ्यांशुमुपांशुपावनौ चापिसृज्य सर्वेऽध्वर्यवो दिग्भ्यो महाभिषवमभिषुण्वन्ति १

02 पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थाता पश्चान्नेष्टोत्तरत ...{Loading}...

पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थाता पश्चान्नेष्टोत्तरत उन्नेता । पश्चादध्वर्युः पुरस्तान्नेष्टेत्येके २

03 उपरे राजानन् न्युप्य ...{Loading}...

उपरे राजानं न्युप्य होतृचमसेऽशूं!नवधायेत्येतदाद्योपसर्गादुपांशुसवनवर्जम् । तूष्णीमितरैर्ग्रावभिरभिषुण्वन्ति ३

04 एवन् द्वितीयन् तृतीयञ् ...{Loading}...

एवं द्वितीयं तृतीयं चोपसृज्याभिषुण्वन्ति ४

05 अभिषुतमध्वर्युरञ्जलिना संसिञ्चति ...{Loading}...

अभिषुतमध्वर्युरञ्जलिना संसिञ्चति ५

06 तमुन्नेतान्तरेषेणोद्धृत्योत्तरत आधवनीयेऽवनयति ...{Loading}...

तमुन्नेतान्तरेषेणोद्धृत्योत्तरत आधवनीयेऽवनयति ६

07 एष एवापां सोमस्य ...{Loading}...

एष एवापां सोमस्य च पन्थाः ७

08 एष प्रथमः पर्यायः ...{Loading}...

एष प्रथमः पर्यायः ८

09 एवं विहितो द्वितीयस्तृतीयश्च ...{Loading}...

एवं विहितो द्वितीयस्तृतीयश्च ९

10 त्रिपर्यायः ...{Loading}...

त्रिपर्यायः १०

11 सम्भृत्य राजानमुपरे ग्राव्णः ...{Loading}...

सम्भृत्य राजानमुपरे ग्राव्णः सम्मुखान्कृत्वा प्रपीड्यर्जीषं मुखेषूपोहति । घासमेभ्यः प्रयच्छतीति विज्ञायते ११

12 तेषूद्गातारो द्रोणकलशम् प्रतिष्ठाप्य ...{Loading}...

तेषूद्गातारो द्रोणकलशं प्रतिष्ठाप्य तस्मिन्नुदीचीनदशं पवित्रं वितन्वन्ति १२

13 पवित्रन् ते विततम् ...{Loading}...

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशतेति वितत्यमानमभिमन्त्रयते यजमानः १३

इति द्वादशी कण्डिका


  1. See XII.8.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XII. 11.11. ↩︎ ↩︎ ↩︎ ↩︎

  3. i.e. the Adhvaryu and his assistants; see the next Sūtra. ↩︎ ↩︎ ↩︎ ↩︎

  4. See XII.2.15. ↩︎