११

01 स्वाहा त्वा सुभवः ...{Loading}...

स्वाहा त्वा सुभवः सूर्यायेति दक्षिणतः प्राञ्चमृजुं सन्ततं दीर्घं हुत्वा देवेभ्यस्त्वा मरीचिपेभ्य इति मध्यमे परिधौ लेपं निमार्ष्टि १

02 यन् द्विष्यात्तस्य प्रह्वो ...{Loading}...

यं द्विष्यात्तस्य प्रह्वो जुहुयात् २

03 यदि कामयेत वर्षुकः ...{Loading}...

यदि कामयेत वर्षुकः पर्जन्यः स्यादित्यभ्यन्तरं पात्रस्यावमृज्याभ्यन्तरं परिधेर्नीचा हस्तेन निमृज्यात् ३

04 यदि कामयेतावर्षुकः स्यादिति ...{Loading}...

यदि कामयेतावर्षुकः स्यादिति बाह्यतः पात्रस्योर्ध्वमुन्मृज्य बाह्यतः परिधेरुत्तानेन हस्तेनोर्ध्वमुन्मृज्यात् ४

05 सर्वमाग्रयणस्थाल्यां सम्पातमवनीयैष ते ...{Loading}...

सर्वमाग्रयणस्थाल्यां सम्पातमवनीयैष ते योनिः प्राणाय त्वेति रिक्तं पात्रमायतने सादयित्वा तस्मिन्नंशुमवास्य तं तृतीयसवनेऽपिसृज्याभिषुणुयात् ५

06 अथैतान्यभिचरतः ...{Loading}...

अथैतान्यभिचरतः ६

07 उपांशुङ् गृहीत्वामुष्य त्वा ...{Loading}...

उपांशुं गृहीत्वामुष्य त्वा प्राणे सादयामीति सादयित्वा देवस्य त्वा सवितुः प्रसव इत्यादायामुष्य त्वा प्राणमपिदधामीति हस्तेनापिधायामुं जह्यथ त्वा होष्यामीति ब्रूयात् ७

08 यदि दूरे स्यादा ...{Loading}...

यदि दूरे स्यादा तमितोस्तिष्ठेत् ८

09 प्रहर्षिणो मदिरस्य मदे ...{Loading}...

प्रहर्षिणो मदिरस्य मदे मृषासावस्त्विति जिह्मस्तिष्ठन्हुत्वामुष्य त्वा प्राणे सादयामीति सादयेत् ९

10 यो वस्त्रे बाहावुरसि ...{Loading}...

यो वस्त्रे बाहावुरसि वांशुराश्लिष्टस्तमभिचरतो जुहोतीत्येके देवांशो यस्मै त्वेडे तत्सत्यमपरिप्लुता भङ्ग्येन हतोऽसौ फडिति १०

11 यत्ते सोमादाभ्यन् नाम ...{Loading}...

यत्ते सोमादाभ्यं नाम जागृवीत्युपांशुपावनानामनुसवनं द्वौद्वावंशू महाभिषवेष्वपिसृजति ११

इत्येकादशी कण्डिका इति तृतीयः पटलः


  1. Cf. KS XXVII.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.4.2.e. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. KS XXVII.1; ŚB IV.1.1.24. ↩︎ ↩︎ ↩︎ ↩︎

  4. TS I.4.2.f. ↩︎ ↩︎ ↩︎

  5. Cf. TS III.2.2.1. ↩︎