१०

01 धिषणे वीडू इत्यधिषवणफलके ...{Loading}...

धिषणे वीडू इत्यधिषवणफलके १

02 अवीवृधं वो मनसा ...{Loading}...

अवीवृधं वो मनसा सुजाता इति राजानमेवाभिमन्त्र्य मा भेर्मा संविक्था इति ग्रावाणमुद्यम्यानागसस्त्वा वयमिन्द्रेण प्रेषिता उप वायुष्टे अस्त्वंशभूर्मित्रस्ते अस्त्वंशभूर्वरुणस्ते अस्त्वंशभूरहतः सोमो राजेति तृणमन्तर्धायाभिषुणोति २

03 यदि वा पुरा ...{Loading}...

यदि वा पुरा तृणं काष्ठं मूलं वा स्यात्तस्मिन्प्रहरेत् ३

04 अष्टौकृत्वोऽग्रेऽभिषुणोति ...{Loading}...

अष्टौकृत्वोऽग्रेऽभिषुणोति ४

05 अथ प्रतिप्रस्थातोपांशुपात्रन् धारयन्नपात्तानामुपरि ...{Loading}...

अथ प्रतिप्रस्थातोपांशुपात्रं धारयन्नपात्तानामुपरि द्वावंशू अन्तर्दधाति ५

06 तस्मिन्नभिषुतमध्वर्युरञ्जलिना गृह्णाति वाचस्पतये ...{Loading}...

तस्मिन्नभिषुतमध्वर्युरञ्जलिना गृह्णाति वाचस्पतये पवस्व वाजिन्निति ६

07 पवित्रमुपयामः सादनञ् च ...{Loading}...

पवित्रमुपयामः सादनं च न विद्यते ७

08 एष प्रथमः पर्यायः ...{Loading}...

एष प्रथमः पर्यायः । एवं विहितो द्वितीयस्तृतीयश्च ८

09 अपि वैकादशकृत्वो द्वितीयमभिषुणोति ...{Loading}...

अपि वैकादशकृत्वो द्वितीयमभिषुणोति । द्वादशकृत्वस्तृतीयम् ९

10 द्विरादितोऽन्ततो वा निग्राभोपायनमुपसर्गश्च ...{Loading}...

द्विरादितोऽन्ततो वा निग्राभोपायनमुपसर्गश्च १०

11 होतृचमसीयानंशूनुत्तमे पर्यायेऽभिषुणोति ...{Loading}...

होतृचमसीयानंशूनुत्तमे पर्यायेऽभिषुणोति ११

12 अवशिष्टानाम् प्रतिप्रस्थाता द्वौद्वावंशू ...{Loading}...

अवशिष्टानां प्रतिप्रस्थाता द्वौद्वावंशू अन्तर्दधाति १२

13 स्वाङ्कृतोऽसीत्यध्वर्युर्ग्रहमादायोर्वन्तरिक्षमन्विहीति दक्षिणेन होतारमतिक्रामति ...{Loading}...

स्वाङ्कृतोऽसीत्यध्वर्युर्ग्रहमादायोर्वन्तरिक्षमन्विहीति दक्षिणेन होतारमतिक्रामति १३

14 येन वा होता ...{Loading}...

येन वा होता प्रतिपादयेत् १४

15 मनस्त्वाष्ट्विति दक्षिणतोऽवस्थाय दक्षिणम् ...{Loading}...

मनस्त्वाष्ट्विति दक्षिणतोऽवस्थाय दक्षिणं परिधिसन्धिमन्ववहृत्य १५

इति दशमी कण्डिका


  1. See XI.12.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.4.l.e. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. ŚB III.9.4.17. ↩︎ ↩︎

  4. Cp. TB III.7.9.1. ↩︎