०९

01 उत्तरस्यां वर्तन्यां होतृचमसं …{Loading}…

उत्तरस्यां वर्तन्यां होतृचमसं वसतीवरीभिरभिपूर्य निग्राभ्यासु यजमानं वाचयति निग्राभ्या स्थ देवश्रुत इति १

02 देवस्य त्वा सवितुः …{Loading}…

देवस्य त्वा सवितुः प्रसव इति ग्रावाणमुपांशुसवनमादाय ग्रावास्यध्वरकृदित्यभिमन्त्रयते । तमाददानो वाचं यत्वाग्रयणं गृहीत्वा विसृजते २

03 अथैनमुपरे निधायांशुभिरभिमिमीते क्रयवत् …{Loading}…

अथैनमुपरे निधायांशुभिरभिमिमीते क्रयवत् ३

04 एतावन्नाना इन्द्राय त्वा …{Loading}…

एतावन्नाना । इन्द्राय त्वा वृत्रघ्न इत्येतैः प्रतिमन्त्रम् ४

05 पञ्चकृत्वो यजुषा मिमीते …{Loading}…

पञ्चकृत्वो यजुषा मिमीते । पञ्चकृत्वस्तूष्णीम् ५

06 नांशूनुपसमूहति …{Loading}…

नांशूनुपसमूहति ६

07 भूयांसम् प्रातःसवनाय राजानम् …{Loading}…

भूयांसं प्रातःसवनाय राजानं प्रकल्पयति । अल्पीयांसं माध्यन्दिनाय ७

08 उपनह्य प्रत्यारोप्यैकग्रहायाप्तं राजानमुपरे …{Loading}…

उपनह्य प्रत्यारोप्यैकग्रहायाप्तं राजानमुपरे न्युप्य होतृचमसेऽशूं!नवधाय तस्मिन्ग्रावाणमुपांशुसवनमुपरि धारयंस्त्रिः प्रदक्षिणं परिप्लावयन्निग्राभमुपैति प्रागपागुदगधरागिति ८

09 याम् भार्याङ् कामयेत …{Loading}…

यां भार्यां कामयेत तां मनसा ध्यायेदम्ब निष्वरेति । सा हैनं कामयते ९

10 श्वात्रा स्थ वृत्रतुर …{Loading}…

श्वात्रा स्थ वृत्रतुर इति तासामेकदेशेनोपसृज्योपस्पृष्टस्य राज्ञः षडंशूनार्द्रान्संश्लिष्टानादाय चर्मणि निधाय यत्ते सोम दिवि ज्योतिरिति राजानमभिमन्त्रयते १०

इति नवमी कण्डिका


  1. TS III.1.8.A. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. By reciting this formula one makes the Vasatīvarī-water to be the Nigrābhyā (“worthy to be scooped”). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. The stone which is used for the pressing out of the Soma juice used for the Usāṁśu (-scoop). For this stone see XII.1.1. ↩︎ ↩︎ ↩︎ ↩︎

  4. TS 1.4.1.a.b. ↩︎ ↩︎

  5. See XII.15.7; cf. TS VI.4.11.2-3; ŚB 111.9.4.6. ↩︎ ↩︎

  6. TS I.4.1.d. ↩︎