०८

01 वसवस्त्वा प्रवृहन्तु गायत्रेण ...{Loading}...

वसवस्त्वा प्रवृहन्तु गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रम् १

02 तैरेनञ् चतुराधूनोति पञ्चकृत्वः ...{Loading}...

तैरेनं चतुराधूनोति । पञ्चकृत्वः सप्तकृत्वो वा । मान्दासु त इत्येतान्प्रतिविभज्य २

03 आस्मिन्नुग्रा अचुच्यवुरित्यादाय ककुहं ...{Loading}...

आस्मिन्नुग्रा अचुच्यवुरित्यादाय ककुहं रूपमिति हरति । यत्ते सोमादाभ्यं नाम जागृवीति जुहोति ३

04 आधवनानंशून्प्रज्ञातान्निधायोशिक्त्वन् देव सोम ...{Loading}...

आधवनानंशून्प्रज्ञातान्निधायोशिक्त्वं देव सोम गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रमनुसवनमेकैकं महाभिषवेष्वपिसृजति ४

05 अंशुङ् गृह्णन्नेकग्रहायाप्तं राजानमुपरे ...{Loading}...

अंशुं गृह्णन्नेकग्रहायाप्तं राजानमुपरे न्युप्य सकृदभिषुत्य वामदेव्यं मनसा गायमानो ऽनवानं गृह्णाति । वामदेव्यस्य वर्चा कया नश्चित्र आभुवदिति ५

06 पराचीनेन ग्राह्यः प्राणतापानता ...{Loading}...

पराचीनेन ग्राह्यः प्राणतापानता वा प्राण्यापान्य व्यनता वा ६

07 यदि व्यवानेदा नः ...{Loading}...

यदि व्यवानेदा नः प्राण एतु परावत इति शतमानं हिरण्यमभिव्यनेयातामध्वर्युर्यजमानश्च ७

08 अथैनौ प्रतिप्रस्थाता हिरण्येन ...{Loading}...

अथैनौ प्रतिप्रस्थाता हिरण्येन संस्पर्शयत्यद्भिश्च प्रत्युक्षति ८

09 इन्द्राग्नी मे वर्चः ...{Loading}...

इन्द्राग्नी मे वर्चः कृणुतामित्यध्वर्युरप उपस्पृश्य दधन्वे वा यदीमन्वित्यनिरुक्तयाप्राजापत्यया प्राण्यापान्य व्यनञ्जुहोति ९

10 यदि न शक्नुयाद्ग्रहीतुं ...{Loading}...

यदि न शक्नुयाद्ग्रहीतुं होतुं वा वरे दत्ते गृह्णीयाज्जुहुयाद्वा १०

11 अंशौ द्वादश प्रथमगर्भाः ...{Loading}...

अंशौ द्वादश प्रथमगर्भाः पष्ठौहीर्ददाति कृत्त्यधीवासं च । एवमदाभ्ये ११

12 भ्रातृव्यवतादाभ्यो ग्रहीतव्यः बुभूषतांशुः ...{Loading}...

भ्रातृव्यवतादाभ्यो ग्रहीतव्यः । बुभूषतांशुः १२

13 तौ न सर्वत्र ...{Loading}...

तौ न सर्वत्र ग्रहीतव्यौ । वाजपेये राजसूये सत्त्रे सर्ववेदसे वा १३

14 योऽस्य सुप्रियः सुविचित ...{Loading}...

योऽस्य सुप्रियः सुविचित इव स्यात्तस्य ग्रहीतव्यौ १४

इत्यष्टमी कण्डिका इति द्वितीयः पटलः


  1. TS III.3.3.a-c. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. MS IV.7.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS III.3.3.d. ↩︎ ↩︎ ↩︎

  4. Thus if he stirs for four times he takes three out of the twelve formulae together for each stalk. ↩︎