०७

01 यङ् कामयेत पण्डकः ...{Loading}...

यं कामयेत पण्डकः स्यादिति तं प्रचरण्योपस्पृशेत् १

02 एतस्यैव हविर्धानस्याधस्तात्पुरोऽक्षम् मैत्रावरुणचमसम् ...{Loading}...

एतस्यैव हविर्धानस्याधस्तात्पुरोऽक्षं मैत्रावरुणचमसम् । उत्तरस्यां वर्तन्यां पुरश्चक्रं होतृचमसम् । उत्तरस्य हविर्धानस्याधस्तात्पुरोऽक्षं वसतीवरीः । पश्चादक्षमेकधनाः २

03 एतद्वा विपरीतम् ...{Loading}...

एतद्वा विपरीतम् ३

04 अपो यजमानोऽनुप्रपद्यते यश ...{Loading}...

अपो यजमानोऽनुप्रपद्यते । यश एवैनमृच्छतीति विज्ञायते ४

05 अत्र दधिग्रहेण चरति ...{Loading}...

अत्र दधिग्रहेण चरति ५

06 औदुम्बरेण गृह्णाति ...{Loading}...

औदुम्बरेण गृह्णाति ६

07 उपयामगृहीतोऽसि प्रजापतये त्वा ...{Loading}...

उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामीति दधि गृहीत्वापेन्द्र द्विषतो मन इति हरति । प्राणाय त्वापानाय त्वेति जुहोति ७

08 दधिग्रहो नित्यः काम्यश्च ...{Loading}...

दधिग्रहो नित्यः काम्यश्च । काम्यावितरौ ८

09 आज्यग्रहङ् गृह्णीयात्तेजस्कामस्येत्युक्तम् ...{Loading}...

आज्यग्रहं गृह्णीयात्तेजस्कामस्येत्युक्तम् ९

10 यदि सोमग्रहङ् गृह्णीयादेकग्रहायाप्तं ...{Loading}...

यदि सोमग्रहं गृह्णीयादेकग्रहायाप्तं राजानमुपरे न्युप्य वसतीवरीभिरुपसृज्यावीवृधं वो मनसा सुजाता इत्यभिमन्त्र्य तिस्रो यह्वस्य समिधः परिज्मनो देवा अकृण्वन्नुशिजो अमर्त्यवे । तासामेकामदधुर्मर्त्ये भुजं लोकमिद्द्वे उप जामी ईयतुरिति सोमकरण्याभिषुणोति १०

11 आ मास्कानिति प्रथमप्लुतमंशुमभिमन्त्रयते ...{Loading}...

आ मास्कानिति प्रथमप्लुतमंशुमभिमन्त्रयते । द्रप्सश्चस्कन्देति विप्रुषः ११

12 हिरण्यपाणिरभिषुणोति गृह्णाति जुहोतीत्यत्यन्तप्रदेशः ...{Loading}...

हिरण्यपाणिरभिषुणोति गृह्णाति जुहोतीत्यत्यन्तप्रदेशः १२

13 तिस्रो यह्वस्येत्येतद्वर्जञ् च ...{Loading}...

तिस्रो यह्वस्येत्येतद्वर्जं च १३

14 तं हुत्वा सदसि ...{Loading}...

तं हुत्वा सदसि प्रत्यङ्मुखो भक्षयति भक्षेहीति यथालिङ्गम् १४

15 अनधिकृतो वा सोमधर्मैर्दधिग्रहविकारत्वात् ...{Loading}...

अनधिकृतो वा सोमधर्मैर्दधिग्रहविकारत्वात् १५

16 यदन्यत्सोमकरण्यास्ते सोमधर्माः ...{Loading}...

यदन्यत्सोमकरण्यास्ते सोमधर्माः १६

17 अंशुमदाभ्यं वा प्रथमङ् ...{Loading}...

अंशुमदाभ्यं वा प्रथमं गृह्णाति १७

18 शुक्रन् ते शुक्रेण ...{Loading}...

शुक्रं ते शुक्रेण गृह्णामीति दध्नः पयसो निग्राभ्याणां वा १८

19 उपनद्धस्य राज्ञस्त्रीनंशून्प्रवृहति ...{Loading}...

उपनद्धस्य राज्ञस्त्रीनंशून्प्रवृहति १९

इति सप्तमी कण्डिका


  1. Thus the Vasatīvarī-water can be placed behind the axle and the Ekadhanā(-water) in front of the axle. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Not known. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS III.5.8.b. ↩︎ ↩︎ ↩︎ ↩︎

  4. MS I.3.35. ↩︎