०६

01 होतृचमसेन वसतीवरीभ्यो निषिच्योपरि ...{Loading}...

होतृचमसेन वसतीवरीभ्यो निषिच्योपरि चात्वाले होतृचमसं मैत्रावरुणचमसं च संस्पर्श्य वसतीवरीर्व्यानयति १

02 समन्या यन्तीत्यभिज्ञाय होतृचमसान्मैत्रावरुणचमस ...{Loading}...

समन्या यन्तीत्यभिज्ञाय होतृचमसान्मैत्रावरुणचमस आनयति । मैत्रावरुणचमसाद्धोतृचमसे । एतद्वा विपरीतम् २

03 उपरि चात्वाले धार्यमाणा ...{Loading}...

उपरि चात्वाले धार्यमाणा उभयीः प्रचरण्या समनक्ति सं वोऽनक्तु वरुणः समिन्द्रः सं पूषा सं धाता सं बृहस्पतिः । त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधात्विति । यथायथं धुरो धुर्भिः कल्पन्तामिति ३

04 अध्वर्योऽवेरपा इति होताध्वर्युम् ...{Loading}...

अध्वर्योऽवेरपा इति होताध्वर्युं पृच्छति ४

05 उतेमनन्नमुरिति प्रत्युक्त्वा प्रचरणीशेषात्क्रतुकरणञ् ...{Loading}...

उतेमनन्नमुरिति प्रत्युक्त्वा प्रचरणीशेषात्क्रतुकरणं जुहोति यमग्ने पृत्सु मर्त्यमिति ५

06 तदभावे चतुर्गृहीतेन ...{Loading}...

तदभावे चतुर्गृहीतेन ६

07 यद्यग्निष्टोमो जुहोतीत्युक्तम् ...{Loading}...

यद्यग्निष्टोमो जुहोतीत्युक्तम् ७

08 अथैकेषाम् यद्यग्निष्टोमो जुहोति ...{Loading}...

अथैकेषाम् । यद्यग्निष्टोमो जुहोति । यद्युक्थ्यः परिधौ निमार्ष्टि । यदि षोडशी हुत्वा परिधौ लेपं निमृज्य द्रोणकलशं रराटीं चोपस्पृशति । न जुहोति नोपस्पृशति वाजपेये ऽतिरात्रे च । एतद्यजुर्वदन्समुद्यैव प्रपद्यते ८

09 अपरया द्वारा हविर्धानमपः ...{Loading}...

अपरया द्वारा हविर्धानमपः प्रपादयति । पूर्वया गतश्रियः ९

10 पूर्वया यजमानः प्रपद्यते ...{Loading}...

पूर्वया यजमानः प्रपद्यते १०

11 दक्षिणस्य हविर्धानस्य प्रधुरे ...{Loading}...

दक्षिणस्य हविर्धानस्य प्रधुरे प्रचरणीं सादयति ११

इति षष्ठी कण्डिका


  1. Cf. TS VI.4.3.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See for this practice BhāraŚS XIII.5.3; MāŚS II.3.2.21. ↩︎ ↩︎ ↩︎

  3. For this ritual of anointing cf. MS IV.5.2. ↩︎ ↩︎