०५

01 यत्राभिजानात्यभूदुषा रुशत्पशुरिति तत्प्रचरण्या …{Loading}…

यत्राभिजानात्यभूदुषा रुशत्पशुरिति तत्प्रचरण्या जुहोति शृणोत्वग्निः समिधा हवं म इति १

02 अपरञ् चतुर्गृहीतङ् गृहीत्वा …{Loading}…

अपरं चतुर्गृहीतं गृहीत्वा सम्प्रेष्यत्यप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्रवैकधनिन आद्रवत नेष्टः पत्नीमुदानयोन्नेतर्होतृचमसेन वसतीवरीभिश्च चात्वालं प्रत्यास्वेति २

03 प्रेह्युदेहीति नेष्टा पत्नीमुदानयति …{Loading}…

प्रेह्युदेहीति नेष्टा पत्नीमुदानयति । एह्युदेहीति वा । पान्नेजनीं स्थालीं धारयमाणम् ३

04 तीर्थेनाभिप्रव्रजन्ति …{Loading}…

तीर्थेनाभिप्रव्रजन्ति ४

05 यत्र होतुः प्रातरनुवाकमनुब्रुवत …{Loading}…

यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृणुयुस्तदपोऽध्वर्युर्वहन्तीनां गृह्णाति ५

06 यदि न शृणोति …{Loading}…

यदि न शृणोति बधिरो ह भवति वाचो ह छिद्यते ६

07 यदि दूरे स्युः …{Loading}…

यदि दूरे स्युः प्रत्युदूह्य गृह्णीयात् ७

08 देवीराप इति तृणमन्तर्धायाभिजुहोति …{Loading}…

देवीराप इति तृणमन्तर्धायाभिजुहोति ८

09 यदि वा पुरा …{Loading}…

यदि वा पुरा तृणं स्यात्तस्मिञ्जुहुयात् ९

10 कार्षिरसीति दर्भैराहुतिमपप्लाव्य समुद्रस्य …{Loading}…

कार्षिरसीति दर्भैराहुतिमपप्लाव्य समुद्रस्य वो ऽक्षित्या उन्नय इत्यभिहुतानां मैत्रावरुणचमसेन गृह्णाति १०

11 सोमस्य त्वा मूजवतो …{Loading}…

सोमस्य त्वा मूजवतो रसं गृह्णामीत्येकधनाः ११

12 पत्नी पन्नेजनीर्गृह्णाति प्रत्यङ्तिष्ठन्ती …{Loading}…

पत्नी पन्नेजनीर्गृह्णाति प्रत्यङ्तिष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्य इति १२

13 प्रेह्युदेहीति नेष्टा पत्नीमुदानयति …{Loading}…

प्रेह्युदेहीति नेष्टा पत्नीमुदानयति । एह्युदेहीति वा १३

14 अपरेण नेष्ट्रीयम् पत्नी …{Loading}…

अपरेण नेष्ट्रीयं पत्नी पन्नेजनीः सादयति प्रत्यङ्तिष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्य इति १४

15 ता एवमेवाच्छावाकं सीदन्तमनूपसादयति …{Loading}…

ता एवमेवाच्छावाकं सीदन्तमनूपसादयति १५

इति पञ्चमी कण्डिका


  1. See AB II.18. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. R̥V V.75.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. MS IV.5.2; ŚB III.9.3.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. TS I.1.13.g. ↩︎ ↩︎