०४

01 द्वे भर्जनार्थे कपाले ...{Loading}...

द्वे भर्जनार्थे कपाले अष्टौ पुरोडाशकपालानि । एकादश माध्यन्दिने । द्वादश तृतीयसवने १

02 सर्वानैन्द्रानेकादशकपालाननुसवनमेके समामनन्ति ...{Loading}...

सर्वानैन्द्रानेकादशकपालाननुसवनमेके समामनन्ति २

03 प्रातर्दोहपात्राणीति ...{Loading}...

प्रातर्दोहपात्राणीति ३

04 प्राग्वंशे प्रतिप्रस्थाता सवनीयान्निर्वपति ...{Loading}...

प्राग्वंशे प्रतिप्रस्थाता सवनीयान्निर्वपति ४

05 सर्वे यवा भवन्ति ...{Loading}...

सर्वे यवा भवन्ति लाजार्थान्परिहाप्य ५

06 इन्द्राय हरिवते धाना ...{Loading}...

इन्द्राय हरिवते धाना इन्द्राय पूषण्वते करम्भं सरस्वत्यै भारत्यै परिवापमिन्द्राय पुरोडाशं मित्रावरुणाभ्यां पयस्यामिति ६

07 निरुप्तेष्वन्वोप्येदन् देवानामित्येतदादि कर्म ...{Loading}...

निरुप्तेष्वन्वोप्येदं देवानामित्येतदादि कर्म प्रतिपद्यते ७

08 अवहननकाले लाजार्थान्परिहाप्येतरानवहन्ति ...{Loading}...

अवहननकाले लाजार्थान्परिहाप्येतरानवहन्ति ८

09 कपालानामुपधानकाले प्रथमेन कपालमन्त्रेण ...{Loading}...

कपालानामुपधानकाले प्रथमेन कपालमन्त्रेण धानार्थं लाजार्थं च कपाले अधिश्रयति ९

10 अधिश्रयणकालेऽधिश्रयणमन्त्रेण तण्डुलानोप्य धानाः ...{Loading}...

अधिश्रयणकालेऽधिश्रयणमन्त्रेण तण्डुलानोप्य धानाः करोति । व्रीहीनोप्य लाजान्करोति १०

11 पुरोडाशमधिश्रित्यामिक्षावत्पयस्याङ् करोति ...{Loading}...

पुरोडाशमधिश्रित्यामिक्षावत्पयस्यां करोति ११

12 उद्वासनकाले धाना उद्वास्य ...{Loading}...

उद्वासनकाले धाना उद्वास्य विभागमन्त्रेण विभज्यार्धा आज्येन संयौति । अर्धाः पिष्टानामावृता सक्तून्करोति १२

13 मन्थं संयुतङ् करम्भ ...{Loading}...

मन्थं संयुतं करम्भ इत्याचक्षते । लाजान्परिवाप इति १३

14 नखैर्लाजेभ्यस्तुषान्संहरति ...{Loading}...

नखैर्लाजेभ्यस्तुषान्संहरति १४

15 नखेषूलूखलधर्मान्मुसलधर्मांश्च करोति ...{Loading}...

नखेषूलूखलधर्मान्मुसलधर्मांश्च करोति १५

इति चतुर्थी कण्डिका इति प्रथमः पटलः


  1. Āpastamba ascribes the practice of his own school (cf. TB 1.5.11.4) to “some” ritualists. The practice mentioned in Sūtra 1 is rejected by the TB I.5.11.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XIII.11.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See I.21.5-7. ↩︎