०३

01 स्थवीयांसि मुखानि ...{Loading}...

स्थवीयांसि मुखानि १

02 अपाङ् क्षया ऋतस्य ...{Loading}...

अपां क्षया ऋतस्य गर्भा भुवनस्य गोपाः श्येना अतिथयः पर्वतानां ककुभः प्रयुतो न पातारः । वग्नुनेन्द्रं ह्वयत घोषेणामीवांश्चातयत । युक्ता स्थ वहत स्वर्गं लोकं यजमानमभिवहतेति सन्नानभिमन्त्र्याग्नीषोमीयवत्सवनीयपात्राणि प्रयुनक्ति । अग्नीषोमीयवदाज्यानि गृह्णाति २

03 अथैकेषाम् प्राग्वंशेऽग्नीषोमीयस्याज्यानि गृह्णाति ...{Loading}...

अथैकेषाम् । प्राग्वंशेऽग्नीषोमीयस्याज्यानि गृह्णाति । आग्नीध्रे सवनीयस्य । उत्तरवेद्यामनूबन्ध्यायाः ३

04 अपरेणोत्तरवेदिं सवनीयस्यानूबन्ध्यायाश्चाज्यानि गृह्णातीत्येके ...{Loading}...

अपरेणोत्तरवेदिं सवनीयस्यानूबन्ध्यायाश्चाज्यानि गृह्णातीत्येके ४

05 यानि काष्ठानि तदहरभ्याधास्यन्स्यात्तानि ...{Loading}...

यानि काष्ठानि तदहरभ्याधास्यन्स्यात्तानि सहेध्मेन प्रोक्षेत् ५

06 समानमा स्रुचां सादनात् ...{Loading}...

समानमा स्रुचां सादनात् ६

07 युनज्मि तिस्रो विपृचः ...{Loading}...

युनज्मि तिस्रो विपृचः सूर्यस्य त इति स्रुचः सन्ना अभिमन्त्रयते ७

08 अत्र सौमिकानाम् पात्राणां ...{Loading}...

अत्र सौमिकानां पात्राणां संसादनमेके समामनन्ति ८

09 आसन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्या ...{Loading}...

आसन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्या इति पुरा प्रातरनुवाकाज्जुहुयात् ९

10 पञ्चहोतारञ् चाग्नीध्रे स्वर्गकामस्य ...{Loading}...

पञ्चहोतारं चाग्नीध्रे स्वर्गकामस्य १०

11 नित्यवदेके समामनन्ति ...{Loading}...

नित्यवदेके समामनन्ति ११

12 मध्येऽग्नेराज्याहुतीः पश्वाहुतीः पुरोडाशाहुतीरिति ...{Loading}...

मध्येऽग्नेराज्याहुतीः पश्वाहुतीः पुरोडाशाहुतीरिति जुहोति । अभितः सोमाहुतीः १२

13 अत्र राजानमन्तरेषे ग्रावसूपावहरति ...{Loading}...

अत्र राजानमन्तरेषे ग्रावसूपावहरति हृदे त्वा सोम राजन्नित्येताभ्याम् १३

14 पुरा वाचः पुरा ...{Loading}...

पुरा वाचः पुरा वा वयोभ्यः प्रवदितोः प्रातरनुवाकमुपाकरोति १४

15 प्रातर्यावभ्यो देवेभ्योऽनुब्रूहि ब्रह्मन्वाचं ...{Loading}...

प्रातर्यावभ्यो देवेभ्योऽनुब्रूहि ब्रह्मन्वाचं यच्छ प्रतिप्रस्थातः सवनीयान्निर्वप सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति सम्प्रेष्यति १५

16 सुब्रह्मण्ये सुब्रह्मण्यामाह्वयेत्येके समामनन्ति ...{Loading}...

सुब्रह्मण्ये सुब्रह्मण्यामाह्वयेत्येके समामनन्ति १६

17 मनसा ते वाचम् ...{Loading}...

मनसा ते वाचं प्रतिगृणामीत्यध्वर्युर्होतारमाह १७

18 अत्र प्रतिप्रस्थाता सवनीयानाम् ...{Loading}...

अत्र प्रतिप्रस्थाता सवनीयानां पाणिप्रक्षालनादि कर्म प्रतिपद्यते १८

19 यथार्थम् पात्राणि प्रयुनक्ति ...{Loading}...

यथार्थं पात्राणि प्रयुनक्ति १९

इति तृतीया कण्डिका


  1. i.e. the lower parts of the stones should be thicker than the upper parts. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. TB III.7.9.1-2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XI.16.6;8. ↩︎ ↩︎ ↩︎

  4. See XI.20.3; LāṭyāŚS I.3.18. ↩︎