०२

01 उत्तरेऽसें\! दधिग्रहपात्रमौदुम्बरञ् चतुःस्रक्ति ...{Loading}...

उत्तरेऽसें! दधिग्रहपात्रमौदुम्बरं चतुःस्रक्ति १

02 एवरुपमेवांश्वदाभ्ययोः ...{Loading}...

एवरुपमेवांश्वदाभ्ययोः २

03 यदि सोमग्रहङ् गृह्णीयादेतदेव ...{Loading}...

यदि सोमग्रहं गृह्णीयादेतदेव विभवेत् ३

04 एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमादित्यस्थालीम् आदित्यपात्रञ् ...{Loading}...

एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमादित्यस्थालीम् । आदित्यपात्रं च तस्या उत्तरम् ४

05 पृथिवी देवतेत्युत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ...{Loading}...

पृथिवी देवतेत्युत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् ५

06 खरे षोडशिपात्रङ् खादिरञ् ...{Loading}...

खरे षोडशिपात्रं खादिरं चतुःस्रक्ति यदि षोडशी ६

07 मध्ये परिप्लवां यथा ...{Loading}...

मध्ये परिप्लवां यथा स्रुगदण्डैवम् ७

08 यथावकाशन् दश चमसान्नैय्यग्रोधान्रौहीतकान्वा ...{Loading}...

यथावकाशं दश चमसान्नैय्यग्रोधान्रौहीतकान्वा त्सरुमतोऽत्सरुकान्वा ८

09 दशैव चमसाध्वर्यवः ...{Loading}...

दशैव चमसाध्वर्यवः ९

10 युनज्मि ते पृथिवीञ् ...{Loading}...

युनज्मि ते पृथिवीं ज्योतिषा सहेति दक्षिणस्य हविर्धानस्याधस्तात्पश्चादक्षं द्रोणकलशं सदशापवित्रम् १०

11 तस्य वायव्यैर्वृक्षनियोगः ...{Loading}...

तस्य वायव्यैर्वृक्षनियोगः ११

12 युनज्मि वायुमन्तरिक्षेण ते ...{Loading}...

युनज्मि वायुमन्तरिक्षेण ते सहेत्युत्तरस्य हविर्धानस्योपरिष्टान्नीड आधवनीयम् । युनज्मि वाचं सह सूर्येण त इति प्रधुर पूतभृतम् १२

13 एतस्यैव हविर्धानस्याधस्तात्पश्चादक्षन् त्रीनेकधनान्घटान् ...{Loading}...

एतस्यैव हविर्धानस्याधस्तात्पश्चादक्षं त्रीनेकधनान्घटान् । पञ्च सप्त नवैकादश वा १३

14 यस्मिन्मिमीते तस्याधिषवणचर्म खरम् ...{Loading}...

यस्मिन्मिमीते तस्याधिषवणचर्म खरं परिकृत्तं चतुष्पुटमुपरिष्टादासेचनवत् १४

15 रक्षोहणो वलगहनः प्रोक्षामि ...{Loading}...

रक्षोहणो वलगहनः प्रोक्षामि वैष्णवमित्यधिषवणचर्म प्रोक्ष्य रक्षोघ्नो वलगघ्नः प्रोक्षामि वैष्णवानिति ग्राव्णो रक्षोहा त्वा वलगहा वैष्णवमास्तृणामीत्यधिषवणफलकयोरुत्तरलोमास्तीर्य रक्षोघ्नो वो वलगघ्नः संसादयामि वैष्णवानिति तस्मिंश्चतुरो ग्राव्णः प्रादेशमात्रानूर्ध्वसानूनाहननप्रकारानश्मनः संसादयति । उपरं प्रथिष्ठं मध्ये पञ्चमम् १५

16 तमभिसम्मुखा भवन्ति ...{Loading}...

तमभिसम्मुखा भवन्ति १६

इति द्वितीया कण्डिका


  1. Cf. KS XXX.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XII.20.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. For placing the Soma-pressing stones. ↩︎ ↩︎

  4. For the Soma-juice to flow out. ↩︎

  5. KS II.11. ↩︎

  6. For this see XII.9.3. ↩︎