०१

01 महारात्रे बुद्ध्वाग्ने नयेत्याग्नीध्रमभिमृशति ...{Loading}...

महारात्रे बुद्ध्वाग्ने नयेत्याग्नीध्रमभिमृशति १

02 इदं विष्णुर्विचक्रम इति ...{Loading}...

इदं विष्णुर्विचक्रम इति हविर्धानम् । अग्न आयूंषि पवस इति स्रुचः । आ वायो भूष शुचिपा इति वायव्यानि । आ घा ये अग्निमिन्धत इति सदः २

03 प्रजापतिर्मनसान्धो ऽच्छेत इति ...{Loading}...

प्रजापतिर् मनसान्धो ऽच्छेत इति
त्रयस्त्रिंशतम् आग्नीध्रे यज्ञतनूर् जुहोति ।
प्रथमेन मन्त्रेण हुत्वा
पूर्वम् पूर्वम् अनुद्रुत्योत्तरेणोत्तरेण जुहोति ३

04 प्रादेशमात्राण्यूर्ध्वसानून्युपरिष्टादासेचनवन्ति मध्ये सन्नतानि ...{Loading}...

प्रादेशमात्राण्य् ऊर्ध्व-सानून्य्
उपरिष्टाद् आसेचनवन्ति
मध्ये सन्नतानि वायव्यानि भवन्ति ४

05 तेषां यान्यनादिष्टवृक्षाणि वैकङ्कतानि ...{Loading}...

तेषां यान्य् अनादिष्ट-वृक्षाणि
वैकङ्कतानि स्युः ।
यो वा यज्ञियो वृक्षः फलग्रहिः ५

06 को वो युनक्ति ...{Loading}...

को वो युनक्ति स वो युनक्त्विति खरे पात्राणि प्रयुनक्ति यान्यनाम्नातमन्त्राणि भवन्ति ६

07 अग्निर्देवतेति दक्षिणे ऽसें\! ...{Loading}...

अग्निर्देवतेति दक्षिणे ऽसें! उपांशुपात्रम् ७

08 सोमो देवतेत्युत्तरमन्तर्यामस्य ...{Loading}...

सोमो देवतेत्युत्तरमन्तर्यामस्य ८

09 बृहन्नसीति ते अन्तरेण ...{Loading}...

बृहन्नसीति ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणामुखं संस्पृष्टं पात्राभ्याम् ९

10 तमपरेण प्रत्यञ्चि द्विदेवत्यपात्राणि ...{Loading}...

तमपरेण प्रत्यञ्चि द्विदेवत्यपात्राणि १०

11 इन्द्रो देवतेति परिस्रगैन्द्रवायवस्य ...{Loading}...

इन्द्रो देवतेति परिस्रगैन्द्रवायवस्य । बृहस्पतिर्देवतेत्यजगावं मैत्रावरुणस्य । अश्विनौ देवतेति द्विस्रक्त्याश्विनस्य ११

12 तान्यपरेण प्रबाहुक्शुक्रामन्तिनोः पात्रे ...{Loading}...

तान्यपरेण प्रबाहुक्शुक्रामन्तिनोः पात्रे । सूर्यो देवतेति दक्षिणं बैल्वं शुक्रस्य । चन्द्रमा देवतेत्युत्तरं वैकङ्कतं मन्थिनः १२

13 ते अपरेण प्रबाहुगृतुपात्रे ...{Loading}...

ते अपरेण प्रबाहुगृतुपात्रे आश्वत्थे अश्वशफबुध्ने उभयतोमुखे । दक्षिणमध्वर्योः । उत्तरम् प्रतिप्रस्थातुः १३

14 विश्वे देवा देवतेति ...{Loading}...

विश्वे देवा देवतेति दक्षिणस्यां श्रोण्यामाग्रयणस्थालीम् । इन्द्रो देवतेत्युत्तरस्यामुक्थ्यस्थालीम् । उक्थ्यपात्रं च तस्या उत्तरम् १४

15 स्थाल्यावन्तरेण त्रीण्युदञ्च्यतिग्राह्यपात्राणि आग्नेयमैन्द्रं ...{Loading}...

स्थाल्यावन्तरेण त्रीण्युदञ्च्यतिग्राह्यपात्राणि । आग्नेयमैन्द्रं सौर्यमिति १५

इति प्रथमा कण्डिका


  1. Cf. TS VII.5.5.1; cp. KB XI.8; AB II.15. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.14.I. ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.4.4.a. ↩︎ ↩︎

  4. TB II.4.5.7. For this Sūtra cf. TS III.1.6.1. ↩︎ ↩︎

  5. Cf. ŚB IV.3.3.6. ↩︎

  6. Cf. TS VI.5.3.1. ↩︎