१९

01 प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते ...{Loading}...

प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते १

02 स्तरणकालेऽपरेणोत्तरवेदिम् बर्हिः स्तृणाति ...{Loading}...

स्तरणकालेऽपरेणोत्तरवेदिं बर्हिः स्तृणाति २

03 स्तरणमन्त्रोऽभ्यावर्तते ...{Loading}...

स्तरणमन्त्रोऽभ्यावर्तते ३

04 आज्यानां सादनादि पाशुकङ् ...{Loading}...

आज्यानां सादनादि पाशुकं कर्म प्रतिपद्यते समानमा प्रवरात् ४

05 दैवञ् च मानुषञ् ...{Loading}...

दैवं च मानुषं च होतारौ वृत्वाश्रावमाश्रावमृतुप्रैषादिभिः सौमिकानृत्विजो वृणीते ५

06 इन्द्रं होत्रात्सर्दिव आ ...{Loading}...

इन्द्रं होत्रात्सर्दिव आ पृथिव्या इति होतारम्॥६॥

07 अपिसृज्य तृणमस्फ्य उत्तरान् ...{Loading}...

अपिसृज्य तृणमस्फ्य उत्तरान् ७

08 अग्निमाग्नीध्रादित्याग्नीध्रम् अश्विनाध्वर्यू आध्वर्यवादित्यध्वर्यू ...{Loading}...

अग्निमाग्नीध्रादित्याग्नीध्रम् । अश्विनाध्वर्यू आध्वर्यवादित्यध्वर्यू । मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादिति मैत्रावरुणम् । इन्द्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाच्छंसिनम् । मरुतः पोत्रादिति पोतारम् । ग्नावो नेष्ट्रादिति नेष्टारम् । अग्निर्दैवीनां विशां पुरएतायं यजमानो मनुष्याणां तयोर्नावस्थूरि गार्हपत्यं दीदयच्छतं हिमा द्वा यू राधांसीत्सम्पृञ्चानावसम्पृञ्चानौ तन्व इति यजमानम् ८

09 अयं सुन्वन्यजमानो मनुष्याणामिति ...{Loading}...

अयं सुन्वन्यजमानो मनुष्याणामिति वा ९

10 सवनीये वरणमेके समामनन्ति ...{Loading}...

सवनीये वरणमेके समामनन्ति । तत्र सुन्वन्निति ब्रूयात् १०

11 सर्वत्रोपांशु नामग्रहणम् मानुष ...{Loading}...

सर्वत्रोपांशु नामग्रहणम् । मानुष इत्युच्चैः ११

इत्येकोनविंशी कण्डिका इति सप्तमः पटलः


  1. See for details II.8.1ff. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The R̥tupraiṣas are found in R̥VKhila V.7.5. See also the following Sūtras here. ↩︎ ↩︎ ↩︎

  3. R̥VKhila V.7.5.1. ↩︎

  4. R̥VKhila V.7.5.f. ↩︎

  5. Cp. R̥VKhila V.7.5.e. ↩︎

  6. R̥VKhila V.7.5.b. ↩︎

  7. Cp. R̥VKhila V.7.5.e. ↩︎

  8. MS II.9.8; cp. ŚB III.7.4.10. ↩︎