१८

01 अथैनं यजमानो देवताभ्यः ...{Loading}...

अथैनं यजमानो देवताभ्यः सम्प्रयच्छत्येष वो देव सवितः सोम इति १

02 एतत्त्वं सोम देवो ...{Loading}...

एतत्त्वं सोम देवो देवानुपागा इत्यभिमन्त्र्येदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्य नमो देवेभ्य इति प्राचीनमञ्जलिं कृत्वा स्वधा पितृभ्य इति दक्षिणेदमहं निर्वरुणस्य पाशादित्युपनिष्क्रम्य स्वरभिव्यख्यमिति प्राङ् प्रेक्षते । सुवरभिविख्येषमिति सर्वं विहारमनुवीक्षते । वैश्वानरं ज्योतिरित्याहवनीयम् २

03 अत्र यजमानोऽवान्तरदीक्षां विसृजते ...{Loading}...

अत्र यजमानोऽवान्तरदीक्षां विसृजते ३

04 अग्ने व्रतपते त्वं ...{Loading}...

अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसीत्याहवनीयमुपतिष्ठते । एतेनैवास्मिन्समिधमादधातीति वाजसनेयकम् ४

05 वितराम् मेखलां विस्रंसते ...{Loading}...

वितरां मेखलां विस्रंसते । वितरां मुष्टी कर्षते ५

06 अत्र दण्डप्रदानमेके समामनन्ति ...{Loading}...

अत्र दण्डप्रदानमेके समामनन्ति ६

07 स्वाहा यज्ञम् मनसा ...{Loading}...

स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्यां स्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इति मुष्टी विसृजते ७

08 स्वाहा वा विवाते ...{Loading}...

स्वाहा वा विवाते विसृज इति वाचम् ८

09 निवर्तते व्रतम् ...{Loading}...

निवर्तते व्रतम् ९

10 सोमान्हविःशेषानिति सुत्येऽहनि भक्षयति ...{Loading}...

सोमान्हविःशेषानिति सुत्येऽहनि भक्षयति १०

11 उत्तरेणाहवनीयम् प्रागग्रमिध्माबर्हिरुपसादयति दक्षिणमिध्ममुत्तरम् ...{Loading}...

उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति । दक्षिणमिध्ममुत्तरं बर्हिः ११

इत्यष्टादशी कण्डिका


  1. TS 1.3.4.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS VI.3.2.4.XI.181 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS.I.3.4.k. ↩︎ ↩︎

  4. TS I.3.4.k. ↩︎

  5. TS I.3.4.1. ↩︎

  6. Of the Havirdhāna-shed. Cf. ŚB III.6.3.20. ↩︎

  7. KS XXVI.2. ↩︎

  8. TS I.3.4.1. ↩︎

  9. TS I.3.4.1. ↩︎