१७

01 आ ग्राव्ण आ ...{Loading}...

आ ग्राव्ण आ वायव्यान्या द्रोणकलशम् । उत्पत्नीमानयन्ति । अन्वनांसि प्रवर्तयन्ति यायावरस्य यान्यपरस्मिन्गार्हपत्ये भवन्ति । अजमनुनयन्ति । इध्माबर्हिराज्यानि प्रोक्षणीरित्यनुहरन्ति १

02 शालामुखीये प्रणयनीयमिध्ममादीप्य सिकताभिरुपयम्याग्नीषोमाभ्याम् ...{Loading}...

शालामुखीये प्रणयनीयमिध्ममादीप्य सिकताभिरुपयम्याग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीति सम्प्रेष्यति । प्रणीयमानाभ्यामनुब्रूहीति वा २

03 प्रथमायान् त्रिरनूक्तायामयन् नो ...{Loading}...

प्रथमायां त्रिरनूक्तायामयं नो अग्निर्वरिवः कृणोत्वित्यग्निप्रथमाः सोमप्रथमा वा प्राञ्चोऽभिप्रव्रजन्ति ३

04 आग्नीध्रीयेऽग्निम् प्रतिष्ठाप्याग्ने नयेत्यर्धमाज्यशेषस्य ...{Loading}...

आग्नीध्रीयेऽग्निं प्रतिष्ठाप्याग्ने नयेत्यर्धमाज्यशेषस्य जुहोति ४

05 ग्राव्णो वायव्यानि द्रोणकलशमाग्नीध्र ...{Loading}...

ग्राव्णो वायव्यानि द्रोणकलशमाग्नीध्र उपवासयति ५

06 उत्तरेणाग्नीध्रीयमाहवनीयङ् गत्वोरु विष्णो ...{Loading}...

उत्तरेणाग्नीध्रीयमाहवनीयं गत्वोरु विष्णो विक्रमस्वेति सर्वमाज्यशेषं जुहोति ६

07 हुतेऽमात्याः प्रदक्षिणमावृत्य यथेतमुपावर्तन्ते ...{Loading}...

हुतेऽमात्याः प्रदक्षिणमावृत्य यथेतमुपावर्तन्ते ७

08 सोमा जिगाति गातुविदित्यपरया ...{Loading}...

सोमा जिगाति गातुविदित्यपरया द्वारा हविर्धानं राजानं प्रपादयति । पूर्वया गतश्रियः ८

09 पूर्वया यजमानः प्रपद्यते ...{Loading}...

पूर्वया यजमानः प्रपद्यते ९

10 दक्षिणस्य हविर्धानस्य नीडे ...{Loading}...

दक्षिणस्य हविर्धानस्य नीडे पूर्ववत्कृष्णाजिनास्तरणं राज्ञश्चासादनम् १०

इति सप्तदशी कण्डिका


  1. It is the Brahman who does this work. For the Vāyavya-cups see XII.1.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. It is the Pratiprasthātr̥ who does this work; according to XI.16.9, this has already been done. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. i.e. the old Gārhapatya. The carts carrying the utensils situated near the old Gārhapatya are to be brought towards the new Gārhapatya (Śālāmukhīya/old Āhavanīya). ↩︎ ↩︎ ↩︎ ↩︎

  4. Yāyāvara. In case the sacrificer is staying in the house (Śālīna), this activity is not to be done. ↩︎ ↩︎ ↩︎

  5. Which is to be offered to Agni-Soma. See X.29.4-6. ↩︎

  6. All thes things are brought from the Prācīnavaṁśa-Hall. ↩︎