१६

01 अग्नीषोमीयस्य पशोस्तन्त्रम् प्रक्रमयति ...{Loading}...

अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति १

02 तस्य निरूढपशुबन्धवत्कल्पः ...{Loading}...

तस्य निरूढपशुबन्धवत्कल्पः २

03 षड्ढोता पश्विष्टिश्चाङ्गभूतेषु न ...{Loading}...

षड्ढोता पश्विष्टिश्चाङ्गभूतेषु न विद्यते ३

04 आतिथ्याबर्हिस्तूष्णीमुपसन्नह्यति ...{Loading}...

आतिथ्याबर्हिस्तूष्णीमुपसन्नह्यति ४

05 तांश्च परिधीन्पाशुक इध्मे ...{Loading}...

तांश्च परिधीन्पाशुक इध्मे ५

06 पात्रसंसादनकाले प्रचरणीं स्रुचं ...{Loading}...

पात्रसंसादनकाले प्रचरणीं स्रुचं सप्तमीं प्रयुनक्ति ६

07 तस्या जुहूवत्कल्पः ...{Loading}...

तस्या जुहूवत्कल्पः ७

08 आज्यग्रहणकाले प्रचरण्यामादितस्तूष्णीञ् चतुर्गृहीतङ् ...{Loading}...

आज्यग्रहणकाले प्रचरण्यामादितस्तूष्णीं चतुर्गृहीतं गृहीत्वा पाशुकान्याज्यानि गृह्णाति ८

09 प्रैतु ब्रह्मणस्पत्नीति प्रतिप्रस्थाता ...{Loading}...

प्रैतु ब्रह्मणस्पत्नीति प्रतिप्रस्थाता पत्नीमुदानयति ९

10 अथाहमनुकामिनीति पत्नी शालामुखीयमुपोपविश्य ...{Loading}...

अथाहमनुकामिनीति पत्नी शालामुखीयमुपोपविश्य सुप्रजसस्त्वा वयमिति जपति १०

11 उपस्थे ब्रह्मा राजानङ् ...{Loading}...

उपस्थे ब्रह्मा राजानं कुरुते ११

12 समपिव्रतान्ह्वयध्वमिति सम्प्रेष्यति ...{Loading}...

समपिव्रतान्ह्वयध्वमिति सम्प्रेष्यति १२

13 यजमानस्यामात्यान्संह्वयन्ति ...{Loading}...

यजमानस्यामात्यान्संह्वयन्ति १३

14 अध्वर्युं यजमानोऽन्वारभते यजमानम् ...{Loading}...

अध्वर्युं यजमानोऽन्वारभते । यजमानं पत्नी । पत्नीमितरे पुत्रभ्रातरः १४

15 अहतेन वाससामात्यान्सम्प्रच्छाद्य वाससोऽन्ते ...{Loading}...

अहतेन वाससामात्यान्सम्प्रच्छाद्य वाससोऽन्ते स्रुग्दण्डमुपनियम्य प्रचरण्या वैसर्जनानि जुहोति १५

16 त्वं सोम तनूकृद्भ्यो ...{Loading}...

त्वं सोम तनूकृद्भ्यो जुषाण इत्येताभ्यामर्धं गार्हपत्ये १६

17 आ सोमन् ददते ...{Loading}...

आ सोमं ददते १७

इति षोडशी कण्डिका


  1. Nirūḍhapaśubandha. For the details see VII.1.1ff. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For this see VII.1.3-5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS III.5.6.d. For this Sūtra cp. MS II.9.1. ↩︎ ↩︎

  4. i.e. the old Āhavanīya (Śālāmukhīya). For this Sūtra cf. TS VI 3.2.1 ↩︎