01 अग्नीषोमीयस्य पशोस्तन्त्रम् प्रक्रमयति …{Loading}…
अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति १
थिते
- (The Adhvaryu) starts the procedure (of the ritual) in connection with the animal (-sacrifice) for Agni-Soma.
अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति १
02 तस्य निरूढपशुबन्धवत्कल्पः …{Loading}…
तस्य निरूढपशुबन्धवत्कल्पः २
थिते
- The ritual of it is similar to that of the independent animal-sacrifice.1
तस्य निरूढपशुबन्धवत्कल्पः २
03 षड्ढोता पश्विष्टिश्चाङ्गभूतेषु न …{Loading}…
षड्ढोता पश्विष्टिश्चाङ्गभूतेषु न विद्यते ३
षड्ढोता पश्विष्टिश्चाङ्गभूतेषु न विद्यते ३
04 आतिथ्याबर्हिस्तूष्णीमुपसन्नह्यति …{Loading}…
आतिथ्याबर्हिस्तूष्णीमुपसन्नह्यति ४
थिते
- He ties up the sacred grass (used) in the Ātithyā-offering1 (along with that to be used in the Agniṣomīya animal-sacrifice) silently (i.e. without any formula).
आतिथ्याबर्हिस्तूष्णीमुपसन्नह्यति ४
05 तांश्च परिधीन्पाशुक इध्मे …{Loading}…
तांश्च परिधीन्पाशुक इध्मे ५
थिते
- And (he ties up) those enclosing sticks1 (used in the Ātithyā-offering along with the fuel-sticks for the Agnīṣomīya animal-sacrifice.
तांश्च परिधीन्पाशुक इध्मे ५
06 पात्रसंसादनकाले प्रचरणीं स्रुचं …{Loading}…
पात्रसंसादनकाले प्रचरणीं स्रुचं सप्तमीं प्रयुनक्ति ६
पात्रसंसादनकाले प्रचरणीं स्रुचं सप्तमीं प्रयुनक्ति ६
07 तस्या जुहूवत्कल्पः …{Loading}…
तस्या जुहूवत्कल्पः ७
थिते
- The procedure of the ritual of it should be similar to that of the Juhū.
तस्या जुहूवत्कल्पः ७
08 आज्यग्रहणकाले प्रचरण्यामादितस्तूष्णीञ् चतुर्गृहीतङ् …{Loading}…
आज्यग्रहणकाले प्रचरण्यामादितस्तूष्णीं चतुर्गृहीतं गृहीत्वा पाशुकान्याज्यानि गृह्णाति ८
थिते
- At the time of scooping the ghee,1 having first, silently (without any formula) having taken the four-time-scooped ghee in the additional ladle he scoops the ghees for the animal sacrifice (into the other ladles).
आज्यग्रहणकाले प्रचरण्यामादितस्तूष्णीं चतुर्गृहीतं गृहीत्वा पाशुकान्याज्यानि गृह्णाति ८
09 प्रैतु ब्रह्मणस्पत्नीति प्रतिप्रस्थाता …{Loading}…
प्रैतु ब्रह्मणस्पत्नीति प्रतिप्रस्थाता पत्नीमुदानयति ९
प्रैतु ब्रह्मणस्पत्नीति प्रतिप्रस्थाता पत्नीमुदानयति ९
10 अथाहमनुकामिनीति पत्नी शालामुखीयमुपोपविश्य …{Loading}…
अथाहमनुकामिनीति पत्नी शालामुखीयमुपोपविश्य सुप्रजसस्त्वा वयमिति जपति १०
अथाहमनुकामिनीति पत्नी शालामुखीयमुपोपविश्य सुप्रजसस्त्वा वयमिति जपति १०
11 उपस्थे ब्रह्मा राजानङ् …{Loading}…
उपस्थे ब्रह्मा राजानं कुरुते ११
थिते
- The Brahman,1 (who is sitting on his place to the south of the old Gārhapatya) places the king (=Soma plant) on his lap.
उपस्थे ब्रह्मा राजानं कुरुते ११
12 समपिव्रतान्ह्वयध्वमिति सम्प्रेष्यति …{Loading}…
समपिव्रतान्ह्वयध्वमिति सम्प्रेष्यति १२
थिते
- (The Adhvaryu) orders his assistants. “Do you call together those who share the Vrata (-food) (of the sacrificer)”.1
समपिव्रतान्ह्वयध्वमिति सम्प्रेष्यति १२
13 यजमानस्यामात्यान्संह्वयन्ति …{Loading}…
यजमानस्यामात्यान्संह्वयन्ति १३
थिते
- (The assistants) call the kinsmen of the sacrificer.
यजमानस्यामात्यान्संह्वयन्ति १३
14 अध्वर्युं यजमानोऽन्वारभते यजमानम् …{Loading}…
अध्वर्युं यजमानोऽन्वारभते । यजमानं पत्नी । पत्नीमितरे पुत्रभ्रातरः १४
थिते
- The sacrificer holds the Adhvaryu from behind; the sacrificer’s wife, the sacrificer, and the other (kinsmen like) sons and brothers the sacrificer’s wife.1
अध्वर्युं यजमानोऽन्वारभते । यजमानं पत्नी । पत्नीमितरे पुत्रभ्रातरः १४
15 अहतेन वाससामात्यान्सम्प्रच्छाद्य वाससोऽन्ते …{Loading}…
अहतेन वाससामात्यान्सम्प्रच्छाद्य वाससोऽन्ते स्रुग्दण्डमुपनियम्य प्रचरण्या वैसर्जनानि जुहोति १५
थिते
- Having covered the kinsmen by means of an unwashed cloth, having tied the handle of the additional ladle to the end of the cloth, (the Adhvaryu) offers the Vaisarjana1 (-libations of ghee) by means of the additional ladle.
अहतेन वाससामात्यान्सम्प्रच्छाद्य वाससोऽन्ते स्रुग्दण्डमुपनियम्य प्रचरण्या वैसर्जनानि जुहोति १५
16 त्वं सोम तनूकृद्भ्यो …{Loading}…
त्वं सोम तनूकृद्भ्यो जुषाण इत्येताभ्यामर्धं गार्हपत्ये १६
त्वं सोम तनूकृद्भ्यो जुषाण इत्येताभ्यामर्धं गार्हपत्ये १६
17 आ सोमन् ददते …{Loading}…
आ सोमं ददते १७
थिते
- They (i.e. assitants) take the Soma,1
आ सोमं ददते १७
इति षोडशी कण्डिका