१५

01 ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्माणम् ...{Loading}...

ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्माणम् । सदस्योऽसि मलिम्लुच इति सदस्यम् । समुद्रोऽसि विश्वभरा इति सदः । अजोऽस्येकपादिति शालामुखीयम् । अहिरसि बुध्निय इति प्राजहितम् । कव्योऽसि कव्यवाहन इति दक्षिणाग्निम् । आयुर्बृहत्तदशीय तन्मावतु तस्य नाम्ना वृश्चामि यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मः । विश्वायुर्वामदेब्यं तदशीय तन्मावतु तस्य नाम्ना वृश्चामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मः । आयुःपति रथन्तरं तदशीय तन्मावतु तस्य नाम्ना वृश्चामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्येतैश्च प्रतिमन्त्रं हविर्धानाग्नीध्रसदांसीति १

02 रौद्रेणानीकेनेति सर्वत्रानुषजति ...{Loading}...

रौद्रेणानीकेनेति सर्वत्रानुषजति २

03 स्तृणीत बर्हिः प्र ...{Loading}...

स्तृणीत बर्हिः प्र व्रतं यच्छतेति सम्प्रेष्यति ३

04 पूर्वस्मिन्वा स्तरण एतं ...{Loading}...

पूर्वस्मिन्वा स्तरण एतं सम्प्रैषं ब्रूयात् ४

05 अत्र स्तृणन्नुत्तरवेदिखरोपरवधिष्णियान्नाभिस्तृणीयात् ...{Loading}...

अत्र स्तृणन्नुत्तरवेदिखरोपरवधिष्णियान्नाभिस्तृणीयात् ५

06 अत्रैकस्तनं व्रतं यजमानाय ...{Loading}...

अत्रैकस्तनं व्रतं यजमानाय प्रयच्छति ६

07 अर्धव्रतमत्र वाजसनेयिनः समामनन्ति ...{Loading}...

अर्धव्रतमत्र वाजसनेयिनः समामनन्ति । अर्धमन्तरेणोत्तमे प्रवर्ग्योपसदौ ७

इति पञ्चदशी कण्डिका इति षष्ठः पटलः


  1. See X.1.10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. These formulae are not found in any Saṁhitā. For the other formulae in this Sūtra see TS I.3.3.n-q. ↩︎

  3. TMB I.4.14. ↩︎ ↩︎