१४

01 चात्वालाद्धिष्णियानुपवपति ...{Loading}...

चात्वालाद्धिष्णियानुपवपति १

02 अन्तराग्नीध्र आग्नीध्रीयमुत्तरे वेद्यन्त ...{Loading}...

अन्तराग्नीध्र आग्नीध्रीयमुत्तरे वेद्यन्त उत्तरतः सञ्चरं शिष्ट्वा २

03 सदसीतरान्पूर्वार्धे पुरस्तात्सञ्चरं शिष्ट्वा ...{Loading}...

सदसीतरान्पूर्वार्धे पुरस्तात्सञ्चरं शिष्ट्वा ३

04 पृष्ठ्यायां होत्रीयम् तन् ...{Loading}...

पृष्ठ्यायां होत्रीयम् । तं दक्षिणेन प्रशास्त्रीयम् ४

05 उत्तरेण होत्रीयमितरानुदीच आयातयति ...{Loading}...

उत्तरेण होत्रीयमितरानुदीच आयातयति । ब्राह्मणाच्छंसिनः पोतुर्नेष्टुरच्छावाकस्येति ५

06 बहिः सदसो मार्जालीयन् ...{Loading}...

बहिः सदसो मार्जालीयं दक्षिणे वेद्यन्ते दक्षिणतः सञ्चरं शिष्ट्वा सममाग्नीध्रीयेण ६

07 विभूरसीत्यष्टाभिः प्रतिमन्त्रम् ...{Loading}...

विभूरसीत्यष्टाभिः प्रतिमन्त्रम् ७

08 एतानेवोपस्थानान्व्याघारणांश्चैके समामनन्ति ...{Loading}...

एतानेवोपस्थानान्व्याघारणांश्चैके समामनन्ति ८

09 अनुदिशतीतरानध्वनामध्वपते नमस्ते अस्तु ...{Loading}...

अनुदिशतीतरानध्वनामध्वपते नमस्ते अस्तु मा मा हिंसीरिति तन्तमभिक्रामम् ९

10 सम्राडसि कृशानुरित्याहवनीयम् परिषद्योऽसि ...{Loading}...

सम्राडसि कृशानुरित्याहवनीयम् । परिषद्योऽसि पवमान इति बहिष्पवमानास्तावम् । प्रतक्वासि नभस्वानिति चात्वालम् । असम्मृष्टो ऽसि हव्यसूद इति शामित्रम् । समूह्योऽसि विश्वभरा इत्युत्करम् । ऋतधामासि सुवर्ज्योतिरित्यौदुम्बरीम् १०

इति चतुर्दशी कण्डिका


  1. Cf. TS VI.3.1.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. i.e. Maitrāvaruņa. ↩︎ ↩︎ ↩︎

  3. For the formulae in this Sūtra see TS I.3.3.i-m. ↩︎