१३

01 औदुम्बरे कार्ष्मर्यमये पालाशे ...{Loading}...

औदुम्बरे कार्ष्मर्यमये पालाशे वा शुष्के तष्टे प्रधिमुखे पुरस्तात्समाविकर्ते पश्चात् १

02 न सन्तृणत्त्येकाहे तत ...{Loading}...

न सन्तृणत्त्येकाहे । तत ऊर्ध्वं सन्तृद्ये २

03 उक्थ्यादिषु वा सन्तृणत्ति ...{Loading}...

उक्थ्यादिषु वा सन्तृणत्ति ३

04 अथैने उपरवेषूपदधाति रक्षोहणौ ...{Loading}...

अथैने उपरवेषूपदधाति रक्षोहणौ वलगहनावुपदधामि वैष्णवी इति ४

05 द्वौ दक्षिणेनापिदधाति द्वावुत्तरेण ...{Loading}...

द्वौ दक्षिणेनापिदधाति । द्वावुत्तरेण ५

06 संहिते पुरस्ताद्द्व्यङ्गुलेन पश्चादसंहिते ...{Loading}...

संहिते पुरस्ताद्द्व्यङ्गुलेन पश्चादसंहिते भवतः ६

07 अथैने उत्तरैर्मन्त्रैः पर्यूहामीति ...{Loading}...

अथैने उत्तरैर्मन्त्रैः पर्यूहामीति प्रदक्षिणमुपरवपांसुभिः पर्युह्य परिस्तृणामीति बर्हिषा परिस्तीर्योत्तमेनाभिमन्त्रयते ७

08 एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमुपरवपांसुभिश्चतुरश्रङ् खरङ् ...{Loading}...

एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमुपरवपांसुभिश्चतुरश्रं खरं करोति सोमपात्रेभ्य आप्तम् ८

09 पुरस्तात्सञ्चरं शिनष्टि ...{Loading}...

पुरस्तात्सञ्चरं शिनष्टि ९

10 अन्तरा चात्वालोत्करावाग्नीध्रचात्वालौ वाध्वर्युर्दृशीकवश्च ...{Loading}...

अन्तरा चात्वालोत्करावाग्नीध्रचात्वालौ वाध्वर्युर्दृशीकवश्च सञ्चरेयुः १०

11 सर्वतः ह्प्रसुते दृशीकवः ...{Loading}...

सर्वतः ह्प्रसुते दृशीकवः सञ्चरेयुरित्येके ११

इति त्रयोदशी कण्डिका इति पञ्चमः पटलः


  1. For this peculiarity see KS XXV.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.3.2.n. ↩︎ ↩︎

  3. TS I.3.2.0. ↩︎

  4. TS I.3.2.p. ↩︎