१२

01 प्रथमं वा सर्वेषु ...{Loading}...

प्रथमं वा सर्वेषु १

02 विराडसि सपत्नहा सम्राडसि ...{Loading}...

विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वाराडसि विश्वासां नाष्ट्राणां हन्तेति बाहू उपावहरतोऽध्वर्युर्यजमानश्च २

03 सम्मृश इमानायुषे वर्चसे ...{Loading}...

सम्मृश इमानायुषे वर्चसे च देवानां निधिरसि द्वेषोयवनः । युयोध्यस्मद्द्वेषांसि यानि कानि च यकृम । देवानामिदं निहितं यदस्तथाभाहि प्रदिशश्चतस्रः । कृण्वानो अन्याँ अधरान्सपत्नानित्युपरवान्सम्मृश्य दक्षिणपूर्वं यजमानोऽवमृशति । उत्तरापरमध्वर्युः ३

04 अथ यजमानः पृच्छत्यध्वर्यो ...{Loading}...

अथ यजमानः पृच्छत्यध्वर्यो किमत्रेति । भद्रमितीतरः प्रत्याह । तन्नौ सहेत्युक्त्वोत्तरपूर्वं यजमानोऽवमृशति । दक्षिणापरमध्वर्युः । तथैव प्रश्नः प्रतिवचनं च । तन्म इत्याह यजमानः ४

05 रक्षोहणो वलगहनः प्रोक्षामि ...{Loading}...

रक्षोहणो वलगहनः प्रोक्षामि वैष्णवानिति यवमतीभिरुपरवान्प्रोक्ष्योत्तरैर्मन्त्रैरवनयामीति प्रोक्ष्णीशेषमवटेऽवनीय यवोऽ सीति यवमवास्यावस्तृणामीति बर्हिषावस्तीर्याभिजुहोमीत्याज्येनाभिजुहोति ५

06 एवं सर्वान्करोति ...{Loading}...

एवं सर्वान्करोति ६

07 रक्षोहणौ वलगहनौ प्रोक्षामि ...{Loading}...

रक्षोहणौ वलगहनौ प्रोक्षामि वैष्णवी इत्यधिषवणफलके प्रोक्षति ७

इति द्वादशी कण्डिका


  1. See XI. 11.8: Perhaps this is the original ritual of the Taittirīya school. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.3.2.f. See XI.11.8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS 1.3.2.h. ↩︎

  4. TS 1.3.2.i. ↩︎

  5. TS 1.3.2.k. ↩︎

  6. TS 1.3.2.L. For this Sūtra see TS VI.2.11.2-3. ↩︎