११

01 दक्षिणस्य हविर्धानस्याधस्तात्पुरोऽक्षञ् चतुर …{Loading}…

दक्षिणस्य हविर्धानस्याधस्तात्पुरोऽक्षं चतुर उपरवानवान्तरदेशेषु प्रादेशमुखान्प्रादेशान्तरालान्करोति १

02 देवस्य त्वा सवितुः …{Loading}…

देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादाय परिलिखितं रक्षः परिलिखिता अरातय इति त्रिर्दक्षिणपूर्वं परिलिखति २

03 एवमितरान्प्रदक्षिणमुत्तरापवर्गम् …{Loading}…

एवमितरान्प्रदक्षिणमुत्तरापवर्गम् ३

04 एवमनुपूर्वाण्येवैष्वत ऊर्ध्वङ् कर्माणि …{Loading}…

एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ४

05 अधस्तात्सन्तृणा भवन्ति उपरिष्टादसम्भिन्नाः …{Loading}…

अधस्तात्सन्तृणा भवन्ति । उपरिष्टादसम्भिन्नाः ५

06 तूष्णीम् बाहुमात्रान्खात्वा रक्षोहणो …{Loading}…

तूष्णीं बाहुमात्रान्खात्वा रक्षोहणो वलगहनो वैष्णवान्खनामीति खनति ६

07 एकवदुपरवमन्त्रानेके समामनन्ति …{Loading}…

एकवदुपरवमन्त्रानेके समामनन्ति ७

08 विराडसीति बाहुमुपावहृत्येदमहन् तं …{Loading}…

विराडसीति बाहुमुपावहृत्येदमहं तं वलगमुद्वपामीत्युदुप्योपरवन्यन्तेऽवबाधते गायत्रेण छन्दसावबाढो वलग इति ८

09 हरामि वैष्णवानिति हरति …{Loading}…

हरामि वैष्णवानिति हरति । अवबाढो दुरस्युरित्यग्रेणोपस्तम्भनं निवपति ९

10 एवं सर्वान्करोति …{Loading}…

एवं सर्वान्करोति १०

11 एतावन्नाना पूर्वेणपूर्वेण मन्त्रेण …{Loading}…

एतावन्नाना । पूर्वेणपूर्वेण मन्त्रेण बाहुमुपावहृत्योत्तरेणोत्तरेण छन्दसावबाधते ११

12 गायत्रन् त्रैष्टुभञ् जागतमानुष्टुभम् …{Loading}…

गायत्रं त्रैष्टुभं जागतमानुष्टुभं पाङ्क्तमित्याम्नातानि भवन्ति १२

इत्येकादशी कण्डिका


  1. MS III.8.8; KS XXV.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS VI.2.11.1 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. MS III.8.8; KS XXV.9; ŚB III.5.4.5. ↩︎ ↩︎ ↩︎

  4. Cf. ŚB III.5.4.5. ↩︎