१०

01 द्युतानस्त्वा मारुतो मिनोत्विति …{Loading}…

द्युतानस्त्वा मारुतो मिनोत्विति प्राचीनकर्णां सहोद्गात्रा मिनोति १

02 ऊर्ध्वन् निखाताद्यजमानसम्मिता …{Loading}…

ऊर्ध्वं निखाताद्यजमानसम्मिता २

03 पर्यूहणपरिदृंहणपरिषेचनानि यूपवत् …{Loading}…

पर्यूहणपरिदृंहणपरिषेचनानि यूपवत् ३

04 तस्या विशाखे हिरण्यन् …{Loading}…

तस्या विशाखे हिरण्यं निधाय घृतेन द्यावापृथिवी आपृणेथामिति स्रुवेण हिरण्ये जुह्वदान्तमौदुम्बरीमन्ववस्रावयति ४

05 एषा सदसः स्थूणानां …{Loading}…

एषा सदसः स्थूणानां वर्षिष्ठा ५

06 नाभिदघ्न्यः पर्यन्तीयाः …{Loading}…

नाभिदघ्न्यः पर्यन्तीयाः ६

07 नीचैः सदो मिनुयाद्वृष्टिकामस्य …{Loading}…

नीचैः सदो मिनुयाद्वृष्टिकामस्य । उच्चैरवृष्टिकामस्येत्येके ७

08 उदञ्चः प्राचश्च वंशानत्याधायैन्द्रमसीति …{Loading}…

उदञ्चः प्राचश्च वंशानत्याधायैन्द्रमसीति तेषु मध्यमानि त्रीणि छदींष्यध्यूहति ८

09 विश्वजनस्य छायेति त्रीणि …{Loading}…

विश्वजनस्य छायेति त्रीणि दक्षिणानि । इन्द्रस्य सदोऽसीति त्रीण्युत्तराणि ९

10 दक्षिणान्युत्तराणि चौदुम्बरीमभ्यग्राणि भवन्ति …{Loading}…

दक्षिणान्युत्तराणि चौदुम्बरीमभ्यग्राणि भवन्ति १०

11 दक्षिणान्युत्तराणि करोतीति विज्ञायते …{Loading}…

दक्षिणान्युत्तराणि करोतीति विज्ञायते ११

12 नवच्छदीति काम्यानि …{Loading}…

नवच्छदीति काम्यानि १२

13 नवाग्निष्टोमे पञ्चदशोक्थ्ये षोडश …{Loading}…

नवाग्निष्टोमे । पञ्चदशोक्थ्ये । षोडश षोडशिनि । सप्तदश वाजपेये ऽतिरात्रे च । एकविंशतिः सत्त्राहीनानाम् १३

14 अन्तर्वर्ताः परिश्रयणं साङ्काशिनन् …{Loading}…

अन्तर्वर्ताः परिश्रयणं सांकाशिनं द्वाराविति हविर्धानवत् १४

15 इन्द्रस्य स्यूरसीति सीव्यति …{Loading}…

इन्द्रस्य स्यूरसीति सीव्यति । इन्द्रस्य ध्रुवमसीति प्रज्ञातं ग्रन्थिं कृत्वैन्द्रमसीन्द्राय त्वेति सम्मितमभिमृशति १५

16 नाध्वर्युः प्रत्यङ् सदोऽतीयात् …{Loading}…

नाध्वर्युः प्रत्यङ् सदोऽतीयात् । धिष्णियान्होतारं वा १६

17 यद्यतीयादैन्द्रियर्चा सञ्चरेत् आ …{Loading}…

यद्यतीयादैन्द्रियर्चा सञ्चरेत् । आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखेति स्तरणीमेतामेके समामनन्ति १७

18 क्षैत्रपत्या वा सञ्चरेत् …{Loading}…

क्षैत्रपत्या वा सञ्चरेत् १८

19 उपरवकर्मैके पुर्वं समामनन्ति …{Loading}…

उपरवकर्मैके पुर्वं समामनन्ति । सदःकर्मैके १९

इति दशमी कण्डिका इति चतुर्थः पटलः


  1. TS.I.3.1.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS VI.2. 10.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.3.1.n. ↩︎ ↩︎ ↩︎

  4. TB II.4.5.7. ↩︎