०८

01 विष्णो रराटमसीति पुरस्ताद्रराट्यान् ...{Loading}...

विष्णो रराटमसीति पुरस्ताद्रराट्यां तिर्यञ्चं वंशं धारयन्विष्णोः स्यूरसीति स्यूत्वा विष्णोर्ध्रुवमसीति प्रज्ञातं ग्रन्थिं कृत्वा प्राचो वंशानत्याधाय विष्णोः पृष्ठमसीति तेषु मध्यमं छदिरध्यूहति त्र्यरत्निविस्तारं नवायामम् १

02 तूष्णीमितरे छदिषी अध्यूह्य ...{Loading}...

तूष्णीमितरे छदिषी अध्यूह्य कटांस्तेजनीरिति छद्यन्तरालेषु प्रवर्तमुपास्यति २

03 तेऽन्तर्वर्ता भवन्ति ...{Loading}...

तेऽन्तर्वर्ता भवन्ति ३

04 परि त्वा गिर्वणो ...{Loading}...

परि त्वा गिर्वणो गिर इति सर्वतः परिश्रित्य विष्णोः श्नप्त्रे स्थ इति रराट्या अन्तौ व्यस्यति । सम्मृशतीत्येके ४

05 विष्णोः स्यूरसीत्यध्वर्युर्दक्षिणान् द्वार्बाहुं ...{Loading}...

विष्णोः स्यूरसीत्यध्वर्युर्दक्षिणां द्वार्बाहुं स्यूत्वा विष्णोर्ध्रुवमसीति प्रज्ञातं ग्रन्थिं करोति ५

06 ग्रन्थिकरणमेके पूर्वं समामनन्ति ...{Loading}...

ग्रन्थिकरणमेके पूर्वं समामनन्ति ६

07 यम् प्रथमङ् ग्रन्थिङ् ...{Loading}...

यं प्रथमं ग्रन्थिं ग्रथ्नीयादित्युक्तम् ७

08 एवमुत्तराम् म्प्रतिप्रस्थाता ...{Loading}...

एवमुत्तरां म्प्रतिप्रस्थाता ८

09 एवमपरे सीव्यतः ...{Loading}...

एवमपरे सीव्यतः ९

10 पुरस्तादुन्नतम् पश्चान्निनतं हविर्धानम् ...{Loading}...

पुरस्तादुन्नतं पश्चान्निनतं हविर्धानम् १०

11 वैष्णवमसि विष्णवे त्वेति ...{Loading}...

वैष्णवमसि विष्णवे त्वेति सम्मितमभिमृशति ११

इत्यष्टमी कण्डिका इति तृतीयः पटलः


  1. Cf. KS XXV.8. ↩︎ ↩︎ ↩︎ ↩︎

  2. TS 1.2.13.m. ↩︎ ↩︎ ↩︎ ↩︎

  3. TS 1.2.13.n. ↩︎ ↩︎

  4. Cp. XIII.24.14. ↩︎

  5. TS 1.2.13.k. ↩︎

  6. TS 1.2.13.k. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎