०७

01 इरावती धेनुमती इति ...{Loading}...

इरावती धेनुमती इति जुहोति १

02 अप जन्यम् भयन् ...{Loading}...

अप जन्यं भयं नुदाप चक्राणि वर्तय । गृहं सोमस्य गच्छतमिति वितृतीयदेशे वेद्या अध्वर्युर्होता ब्रह्मा मैत्रावरुणो वा पदापनुदति । लोष्टं वा बहिर्वेदि निरस्यति २

03 आहवनीयात्त्रीन्प्रतीचः प्रक्रमानुच्छिष्यात्र रमेथामिति ...{Loading}...

आहवनीयात्त्रीन्प्रतीचः प्रक्रमानुच्छिष्यात्र रमेथामिति नभ्यस्थे स्थापयित्वा वैष्णवमसि विष्णुस्त्वोत्तभ्नात्वित्युपस्तभ्य दिवो वा विष्णवित्यध्वर्युर्दक्षिणस्य हविर्धानस्य दक्षिणं कर्णातर्दमनु मेथीं निहन्ति । तस्यामीषां निनह्यति ३

04 एवमुत्तरस्य प्रतिप्रस्थाता विष्णोर्नु ...{Loading}...

एवमुत्तरस्य प्रतिप्रस्थाता विष्णोर्नु कमित्युत्तरम् कर्णातर्दमनु ४

05 ऊर्ध्वाः शम्या उद्वृह्योपरिष्टात्परिवेष्टयन्ति ...{Loading}...

ऊर्ध्वाः शम्या उद्वृह्योपरिष्टात्परिवेष्टयन्ति ५

06 उत्ताना हि देवगवा ...{Loading}...

उत्ताना हि देवगवा वहन्तीति विज्ञायते ६

07 महो वा विष्णविति ...{Loading}...

महो वा विष्णविति सर्वतः स्थूणाः परिमिनोति ७

08 पुरस्ताच्चान्तः खरायावकाशं शिष्ट्वा ...{Loading}...

पुरस्ताच्चान्तः खरायावकाशं शिष्ट्वा ८

09 उदञ्चौ वंशावत्यादधाति पश्चात्पुरस्ताच्च ...{Loading}...

उदञ्चौ वंशावत्यादधाति पश्चात्पुरस्ताच्च ९

10 समानं साङ्काशिनं शालामुखीयहोत्रीयौत्तरवेदिकानाम् ...{Loading}...

समानं साङ्काशिनं शालामुखीयहोत्रीयौत्तरवेदिकानाम् १०

इति सप्तमी कण्डिका


  1. TS I2.13.f. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. i.e. the fire on the Uttaravedi. For this location cf. ŚB III.5.3.19. ↩︎ ↩︎

  3. MS I.2.8; KS II.9. ↩︎

  4. TS I.2.13.h. ↩︎

  5. Cf. TS VI.2.9.4. ↩︎