०६

01 प्रोक्ष्य बर्हिस्त्रिर्वेदिम् प्रोक्षति ...{Loading}...

प्रोक्ष्य बर्हिस्त्रिर्वेदिं प्रोक्षति १

02 नाप्रोक्षितामभिचरन्ति ...{Loading}...

नाप्रोक्षितामभिचरन्ति २

03 अथैनाम् बर्हिषा बहुलम् ...{Loading}...

अथैनां बर्हिषा बहुलं प्राचीनं स्तीर्त्वा प्रयुक्तपूर्वे शकटे नद्धयुगे प्रतिहतशम्ये प्रक्षाल्य तयोः प्रथमग्रथितान्ग्रन्थीन्विस्रस्य नवान्प्रज्ञातान्कृत्वाग्रेण प्राग्वंशमभितः पृष्ठ्यामव्यवनयन्परिश्रिते सच्छदिषी अवस्थापयति ३

04 अथैने पत्नी पदतृतीयेनाज्यमिश्रेणोपानक्ति ...{Loading}...

अथैने पत्नी पदतृतीयेनाज्यमिश्रेणोपानक्ति ४

05 आ नो वीरो ...{Loading}...

आ नो वीरो जायतामिति द्विर्दक्षिणामक्षधुरं दक्षिणेन हस्तेनोत्तानेन प्राचीनम् ५

06 न च हस्तमावर्तयति ...{Loading}...

न च हस्तमावर्तयति ६

07 एवमितराम् ...{Loading}...

एवमितराम् ७

08 सकृद्वा ...{Loading}...

सकृद्वा ८

09 तथोत्तरस्य हविर्धानस्योपानक्ति ...{Loading}...

तथोत्तरस्य हविर्धानस्योपानक्ति ९

10 युञ्जते मन इति ...{Loading}...

युञ्जते मन इति सावित्रियर्चौत्तरवेदिके हुत्वा हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति सम्प्रेष्यति । प्रवर्त्यमानाभ्यामनुब्रूहीति वा १०

11 प्रथमायान् त्रिरनूक्तायाम् प्राची ...{Loading}...

प्रथमायां त्रिरनूक्तायां प्राची प्रेतमध्वरमित्युद्गृह्णन्तः प्रवर्तयन्ति ११

12 स्याच्चेदक्षशब्दः सुवागित्यनुमन्त्रयेत ...{Loading}...

स्याच्चेदक्षशब्दः सुवागित्यनुमन्त्रयेत १२

13 दक्षिणस्य हविर्धानस्य वर्त्मनि ...{Loading}...

दक्षिणस्य हविर्धानस्य वर्त्मनि वर्त्मनोर्वा हिरण्यं निधायेदं विष्णुर्विचक्रम इत्यध्वर्युर्हिरण्ये जुहोति १३

14 एवमुत्तरस्य प्रतिप्रस्थाता ...{Loading}...

एवमुत्तरस्य प्रतिप्रस्थाता १४

इति षष्ठी कण्डिका


  1. Cp. KS XXV.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. MS III.8.6. ↩︎ ↩︎ ↩︎

  3. Cf. MS III.8.6. ↩︎ ↩︎ ↩︎

  4. Cf. TS VI.2.9.1. ↩︎

  5. Cr. ŚB III.5.3.9. ↩︎

  6. Cf. TS VI.2.9.1. ↩︎

  7. Cp. XIII.24.14. ↩︎

  8. See XI.4.16. ↩︎