०५

01 इमान् नरः कृणुत ...{Loading}...

इमां नरः कृणुत वेदिमेत्य वसुमतीं रुद्रवतीमादित्यवतीं वर्ष्मन्दिवो नाभा पृथिव्या यथायं यजमानो न रिष्येद्देवस्य सवितुः सव इति सम्प्रेष्यति १

02 स्फ्येन विघनेन पर्श्वा ...{Loading}...

स्फ्येन विघनेन पर्श्वा परशुना च वेदिं कुर्वन्ति २

03 दर्शपूर्णमासवत्सन्नमनवर्जम् प्रागुत्तरात्परिग्राहात्कृत्वा चतुःशिखण्डा ...{Loading}...

दर्शपूर्णमासवत्सन्नमनवर्जं प्रागुत्तरात्परिग्राहात्कृत्वा चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये । तस्यां सुपर्णावधि यौ निविष्टौ तयोर्देवानामधि भागधेयमित्यभिमन्त्र्य ३

04 चात्वालाद्द्वादशसु प्रक्रमेषु प्रत्यगुत्करः ...{Loading}...

चात्वालाद्द्वादशसु प्रक्रमेषु प्रत्यगुत्करः । तावत्येवाध्वन्युदग्यथा चात्वालः ४

05 व्याख्यातश्चात्वाल उत्तरवेदिश्च ...{Loading}...

व्याख्यातश्चात्वाल उत्तरवेदिश्च ५

06 उदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छन्ना ...{Loading}...

उदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छन्ना वसति ६

07 श्वोभूत उत्तमे प्रवर्ग्योपसदौ ...{Loading}...

श्वोभूत उत्तमे प्रवर्ग्योपसदौ प्रतिसमस्यति ७

08 पौर्वाह्णिकीभ्याम् प्रचर्य तदानीमेवापराह्णिकीभ्याम् ...{Loading}...

पौर्वाह्णिकीभ्यां प्रचर्य तदानीमेवापराह्णिकीभ्याम् ८

09 अत्र प्रवर्ग्यमुद्वास्य पशुबन्धवदग्निम् ...{Loading}...

अत्र प्रवर्ग्यमुद्वास्य पशुबन्धवदग्निं प्रणयति ९

10 एष सोमस्याहवनीयः यतः ...{Loading}...

एष सोमस्याहवनीयः । यतः प्रणयति स गार्हपत्यः १०

11 अग्निवत्युत्तरम् परिग्राहम् परिगृह्णाति ...{Loading}...

अग्निवत्युत्तरं परिग्राहं परिगृह्णाति ११

12 अत्र प्रतिप्रस्थाता शाखामाहृत्य ...{Loading}...

अत्र प्रतिप्रस्थाता शाखामाहृत्य मैत्रावरुण्याः पयस्याया वत्सानपाकरोति १२

इति पञ्चमी कण्डिका इति द्वितीयः पटलः


  1. TB III.7.7.13. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See II.3.2. ↩︎ ↩︎ ↩︎

  3. TB III.7.7.14; cp. R̥V X.114.3. ↩︎