०४

01 सुपूर्वाह्ने पौर्वाह्णिकीभ्याम् प्रवर्ग्योपसद्भ्याञ् ...{Loading}...

सुपूर्वाह्ने पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां चरन्ति । स्वपराह्ण आपराह्णिकीभ्याम् १

02 सव्योत्तानैस्तु सायन् निह्नवः ...{Loading}...

सव्योत्तानैस्तु सायं निह्नवः २

03 एषा प्रथमा ...{Loading}...

एषा प्रथमा ३

04 एवमुत्तराभ्याञ् चर्या ...{Loading}...

एवमुत्तराभ्यां चर्या ४

05 रजाशयान् द्वितीयायाञ् जुहोति ...{Loading}...

रजाशयां द्वितीयायां जुहोति । हराशयां तृतीयायाम् ५

06 याः प्रातर्याज्या इत्युक्तम् ...{Loading}...

याः प्रातर्याज्या इत्युक्तम् ६

07 तिस्र एव साह्नस्योपसदः ...{Loading}...

तिस्र एव साह्नस्योपसदः । द्वादशाहीनस्य ७

08 यदि सङ्ग्रामम् पुरो ...{Loading}...

यदि सङ्ग्रामं पुरो वा युध्येयुरयः प्रथमायामवधाय जुहुयात् । रजतं द्वितीयायाम् । हरितमुत्तमायाम् ८

09 आराग्रामिति स्तनकल्पः ...{Loading}...

आराग्रामिति स्तनकल्पः ९

10 यदहः सोमङ् क्रीणीयुश्चतुरः ...{Loading}...

यदहः सोमं क्रीणीयुश्चतुरः सायं दुह्युस्त्रीन्प्रातर्द्वौ सायमेकमुत्तमे । सर्वान्सायमाशिरे १०

11 अन्तरा मध्यमे प्रवर्ग्योपसदौ ...{Loading}...

अन्तरा मध्यमे प्रवर्ग्योपसदौ वेदि कुर्वन्ति ११

12 प्राग्वंशस्य मध्यमाल्ललाटिकात्त्रीन्प्राचः प्रक्रमान्प्रक्रम्य ...{Loading}...

प्राग्वंशस्य मध्यमाल्ललाटिकात्त्रीन्प्राचः प्रक्रमान्प्रक्रम्य शङ्कुं निहन्ति १२

13 तस्मात्पञ्चदशसु दक्षिणतः एवमुत्तरतः ...{Loading}...

तस्मात्पञ्चदशसु दक्षिणतः । एवमुत्तरतः । ते श्रोणी । प्रथमनिहताच्छङ्कोः षट्त्रिंशतिः पुरस्तात् । तस्माद्द्वादशसु दक्षिणतः । एवमुत्तरतः । तावंसौ १३

14 विमिमे त्वा पयस्वतीन् ...{Loading}...

विमिमे त्वा पयस्वतीं देवानां धेनुं सुदुघामनपस्फुरन्तीम् । इन्द्रः सोमं पिबतु क्षेमो अस्तु न इति विमानः १४

15 सर्वतः स्यन्द्यया पर्यातनोति ...{Loading}...

सर्वतः स्यन्द्यया पर्यातनोति १५

16 मध्ये पृष्ट्याम् ...{Loading}...

मध्ये पृष्ट्याम् १६

इति चतुर्थी कण्डिका


  1. Cf. AB I.23. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. This is to be done in connection with the libation mentioned in X1.3.12 and XI.4.5. ↩︎