01 सुपूर्वाह्ने पौर्वाह्णिकीभ्याम् प्रवर्ग्योपसद्भ्याञ् …{Loading}…
सुपूर्वाह्ने पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां चरन्ति । स्वपराह्ण आपराह्णिकीभ्याम् १
थिते
- They perform the forenoon Pravarya and Upasad as early (as possible) in the fore-noon; (they perform) the after noon (Pravargya and Upasads) as early (as possible) in the afternoon.1
सुपूर्वाह्ने पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां चरन्ति । स्वपराह्ण आपराह्णिकीभ्याम् १
02 सव्योत्तानैस्तु सायन् निह्नवः …{Loading}…
सव्योत्तानैस्तु सायं निह्नवः २
थिते
- In the evening they should make amends by placing (upon the Prastara) their left hands with the palms turned upwards.1
सव्योत्तानैस्तु सायं निह्नवः २
03 एषा प्रथमा …{Loading}…
एषा प्रथमा ३
थिते
- This is the first (Upasad).
एषा प्रथमा ३
04 एवमुत्तराभ्याञ् चर्या …{Loading}…
एवमुत्तराभ्यां चर्या ४
थिते
- In the same manner the performance of the next two (Upasads) (should be done).
एवमुत्तराभ्यां चर्या ४
05 रजाशयान् द्वितीयायाञ् जुहोति …{Loading}…
रजाशयां द्वितीयायां जुहोति । हराशयां तृतीयायाम् ५
थिते
- In the second (Upasad the Adhvaryu) offers the Rajāśayā-libation; in the third, the Harāśayā-libation.1
रजाशयां द्वितीयायां जुहोति । हराशयां तृतीयायाम् ५
06 याः प्रातर्याज्या इत्युक्तम् …{Loading}…
याः प्रातर्याज्या इत्युक्तम् ६
याः प्रातर्याज्या इत्युक्तम् ६
07 तिस्र एव साह्नस्योपसदः …{Loading}…
तिस्र एव साह्नस्योपसदः । द्वादशाहीनस्य ७
थिते
- In a one-day-soma-sacrifice (there should be) only three Upasads. In a Sacrifice extending over two to twelve days there shuld be twelve (Upasads).
तिस्र एव साह्नस्योपसदः । द्वादशाहीनस्य ७
08 यदि सङ्ग्रामम् पुरो …{Loading}…
यदि सङ्ग्रामं पुरो वा युध्येयुरयः प्रथमायामवधाय जुहुयात् । रजतं द्वितीयायाम् । हरितमुत्तमायाम् ८
यदि सङ्ग्रामं पुरो वा युध्येयुरयः प्रथमायामवधाय जुहुयात् । रजतं द्वितीयायाम् । हरितमुत्तमायाम् ८
09 आराग्रामिति स्तनकल्पः …{Loading}…
आराग्रामिति स्तनकल्पः ९
थिते
- (In the Brāhmaṇa-text) the procedure (in connection with the rule about the number) of teats (the milk of which is to be used as the fast-food by the sacrificer is mentioned in a paragraph beginning with the word) ārāgrām.1
आराग्रामिति स्तनकल्पः ९
10 यदहः सोमङ् क्रीणीयुश्चतुरः …{Loading}…
यदहः सोमं क्रीणीयुश्चतुरः सायं दुह्युस्त्रीन्प्रातर्द्वौ सायमेकमुत्तमे । सर्वान्सायमाशिरे १०
थिते
- On the day on which they purchase Soma, they should milk four teats in the evening; three (next) morning; two in the evening (of that second day); one in the morning of the last (third day). In the evening (they should milk) all (the teats) for milk to be mixed with Soma.1
यदहः सोमं क्रीणीयुश्चतुरः सायं दुह्युस्त्रीन्प्रातर्द्वौ सायमेकमुत्तमे । सर्वान्सायमाशिरे १०
11 अन्तरा मध्यमे प्रवर्ग्योपसदौ …{Loading}…
अन्तरा मध्यमे प्रवर्ग्योपसदौ वेदि कुर्वन्ति ११
थिते
- In between the middle Pravargya and Upasad1 they prepare the altar.
अन्तरा मध्यमे प्रवर्ग्योपसदौ वेदि कुर्वन्ति ११
12 प्राग्वंशस्य मध्यमाल्ललाटिकात्त्रीन्प्राचः प्रक्रमान्प्रक्रम्य …{Loading}…
प्राग्वंशस्य मध्यमाल्ललाटिकात्त्रीन्प्राचः प्रक्रमान्प्रक्रम्य शङ्कुं निहन्ति १२
थिते
- Having gone three steps to the east from the central point of the Pragvaṁśa (the Adhvaryu) fixes up a yoke-pin.
प्राग्वंशस्य मध्यमाल्ललाटिकात्त्रीन्प्राचः प्रक्रमान्प्रक्रम्य शङ्कुं निहन्ति १२
13 तस्मात्पञ्चदशसु दक्षिणतः एवमुत्तरतः …{Loading}…
तस्मात्पञ्चदशसु दक्षिणतः । एवमुत्तरतः । ते श्रोणी । प्रथमनिहताच्छङ्कोः षट्त्रिंशतिः पुरस्तात् । तस्माद्द्वादशसु दक्षिणतः । एवमुत्तरतः । तावंसौ १३
थिते
- From that point, at a distance of fifteen (steps), towards the south and at the same distance towards the north (he fixes up two yoke-pins). They represent the two hips (of the altar). At a distance of thirty-six (steps), to the east of the first fixed yoke-pin (he fixes up a yoke-pin). From that (yoke-pin) at the distance of twelve steps towards the south (he fixes a yoke-pin) and at the same distance towards the north (he fixes a yoke pin). They represent the two shoulders.
तस्मात्पञ्चदशसु दक्षिणतः । एवमुत्तरतः । ते श्रोणी । प्रथमनिहताच्छङ्कोः षट्त्रिंशतिः पुरस्तात् । तस्माद्द्वादशसु दक्षिणतः । एवमुत्तरतः । तावंसौ १३
14 विमिमे त्वा पयस्वतीन् …{Loading}…
विमिमे त्वा पयस्वतीं देवानां धेनुं सुदुघामनपस्फुरन्तीम् । इन्द्रः सोमं पिबतु क्षेमो अस्तु न इति विमानः १४
थिते
- With vi mime tvā payasvatīm…1 he measures out (me altar).
विमिमे त्वा पयस्वतीं देवानां धेनुं सुदुघामनपस्फुरन्तीम् । इन्द्रः सोमं पिबतु क्षेमो अस्तु न इति विमानः १४
15 सर्वतः स्यन्द्यया पर्यातनोति …{Loading}…
सर्वतः स्यन्द्यया पर्यातनोति १५
थिते
- He stretches out a cord round the altar on all sides.
सर्वतः स्यन्द्यया पर्यातनोति १५
16 मध्ये पृष्ट्याम् …{Loading}…
मध्ये पृष्ट्याम् १६
थिते
- In the middle he spreads out the Pr̥ṣṭhyā-line.
मध्ये पृष्ट्याम् १६
इति चतुर्थी कण्डिका