०३

01 लोमभ्योऽधि स्तम्बयजुर्हृत्वोत्तरम् परिग्राहम् …{Loading}…

लोमभ्योऽधि स्तम्बयजुर्हृत्वोत्तरं परिग्राहं परिगृह्य सम्प्रेष्यति प्रोक्षणीरासादयेध्ममुपसादय स्रुवं च स्रुचश्च सम्मृड्ढ्याज्येनोदेहीति १

02 आज्यग्रहणकाले ध्रुवायामेव गृह्णाति …{Loading}…

आज्यग्रहणकाले ध्रुवायामेव गृह्णाति । प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं च प्रोक्ष्य प्रोक्षणीशेषं निनीय पवित्रे अपिसृज्यैकामाघारसमिधमाधायान्तर्वेदि विधृती निधाय ध्रुवां स्रुवं च सादयति । एतावसदतामिति मन्त्रं सन्नमति २

03 वेदन् निधाय सामिधेनीभ्यः …{Loading}…

वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते ३

04 नव सामिधेनीरन्वाह …{Loading}…

नव सामिधेनीरन्वाह ४

05 तिस्र ऋचस्त्रिरनूक्ता भवन्ति …{Loading}…

तिस्र ऋचस्त्रिरनूक्ता भवन्ति । नव वा पराचीः ५

06 नान्यामाहुतिम् पुरस्ताज्जुहुयात् स्रौवमेवाघारयेत् …{Loading}…

नान्यामाहुतिं पुरस्ताज्जुहुयात् । स्रौवमेवाघारयेत् ६

07 समानमा प्रवरात् …{Loading}…

समानमा प्रवरात् ७

08 नार्षेयं वृणीते न …{Loading}…

नार्षेयं वृणीते न होतारम् । आश्राव्याह सीद होतरिति । एतावान्प्रवरः ८

09 ध्रौवादष्टौ जुह्वाङ् गृह्णाति …{Loading}…

ध्रौवादष्टौ जुह्वां गृह्णाति । चतुरुपभृति ९

10 घृतवति शब्दे जुहूपभृतावादाय …{Loading}…

घृतवति शब्दे जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्त उपांशुयाजवत्प्रचरति १०

11 अर्धेन जौहवस्याग्निं यजति …{Loading}…

अर्धेन जौहवस्याग्निं यजति । अर्धेन सोमम् ११

12 औपभृतञ् जुह्वामानीय विष्णुमिष्ट्वा …{Loading}…

औपभृतं जुह्वामानीय विष्णुमिष्ट्वा प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरिति स्रुवेणोपसदं जुहोति १२

13 इत्येतदाद्या निह्नवात्कृत्वाग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य …{Loading}…

अग्नीन्मदन्त्यापा३ इत्येतदाद्या निह्नवात्कृत्वाग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति १३

14 अपरेण गार्हपत्यमाग्नीध्र उपविश्य …{Loading}…

अपरेण गार्हपत्यमाग्नीध्र उपविश्य देवपत्नीर्व्याचष्टे सेनेन्द्रस्य धेनेति । उत्करे सुब्रह्मण्यामाह्वयति । पूर्ववदेनां यजमानोऽनुमन्त्रयते १४

इति तृतीया कण्डिका इति प्रथमः पटलः


  1. See II.1.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See II.1.5.ff. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See II.3.7. ↩︎ ↩︎

  4. See II.3.11. ↩︎ ↩︎

  5. X.28.5 ↩︎