०२

01 सन्तराम् मेखलां समायच्छते …{Loading}…

सन्तरां मेखलां समायच्छते । सन्तरां मुष्टी कर्षते १

02 तप्तव्रतो भवति …{Loading}…

तप्तव्रतो भवति २

03 मदन्तीभिर्मार्जयते …{Loading}…

मदन्तीभिर्मार्जयते ३

04 या ते अग्ने …{Loading}…

या ते अग्ने रुद्रिया तनूरित्येतेनैवात ऊर्ध्वं व्रतयति ४

05 प्रवर्ग्येण प्रचर्योपसदा चरन्ति …{Loading}…

प्रवर्ग्येण प्रचर्योपसदा चरन्ति । एतद्वा विपरीतम् ५

06 न प्रथमयज्ञे प्रवृञ्ज्यात् …{Loading}…

न प्रथमयज्ञे प्रवृञ्ज्यात् ६

07 प्रवृञ्ज्याद्वा …{Loading}…

प्रवृञ्ज्याद्वा ७

08 प्रवृञ्ज्याद्दुर्ब्राह्मणस्य …{Loading}…

प्रवृञ्ज्याद्दुर्ब्राह्मणस्य ८

09 ब्रह्मवर्चसकामस्येत्येके …{Loading}…

ब्रह्मवर्चसकामस्येत्येके ९

10 योऽनूचानः श्रोत्रियस्तस्य प्रवृञ्ज्यादिति …{Loading}…

योऽनूचानः श्रोत्रियस्तस्य प्रवृञ्ज्यादिति बह्वृचब्राह्मणम् १०

11 आतिथ्याबर्हिरुपसदामग्नीषोमीयस्य च तदेव …{Loading}…

आतिथ्याबर्हिरुपसदामग्नीषोमीयस्य च । तदेव प्रस्तरपरिधि ११

12 तत्स्तीर्णम् बर्हिस्तत्परिधिताः परिधय …{Loading}…

तत्स्तीर्णं बर्हिस्तत्परिधिताः परिधय इत्येके १२

13 उपसदस्तन्त्रम् प्रक्रमयति …{Loading}…

उपसदस्तन्त्रं प्रक्रमयति १३

14 प्राकृत इध्मो दशदारुर्वा …{Loading}…

प्राकृत इध्मो दशदारुर्वा १४

15 वेदङ् कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि …{Loading}…

वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते । यथार्थं पात्राणि प्रयुनक्ति १५

16 स्फ्यमग्निहोत्रहवणीं स्रुवञ् जुहूमुपभृतन् …{Loading}…

स्फ्यमग्निहोत्रहवणीं स्रुवं जुहूमुपभृतं ध्रुवां वेदमाज्यस्थालीमिति द्वन्द्वं प्रयुज्य पवित्रे कृत्वा यजमान वाचं यच्छेति सम्प्रेष्यति १६

17 वाग्यतः पात्राणि सम्मृश्य …{Loading}…

वाग्यतः पात्राणि सम्मृश्य प्रोक्षणीः संस्कृत्य ब्रह्माणमामन्त्र्य पात्राणि प्रोक्षति १७

18 अत्र वाचं विसृजते …{Loading}…

अत्र वाचं विसृजते १८

19 स्फ्यमादाय …{Loading}…

स्फ्यमादाय १९

इति द्वितीया कण्डिका


  1. Cf. TS VI.2.2.6-7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. ŚB III.4.3.3. ↩︎ ↩︎ ↩︎

  3. See I.16.22. ↩︎