०१

01 आतिथ्याया ध्रौवात्स्रुचि चमसे ...{Loading}...

आतिथ्याया ध्रौवात्स्रुचि चमसे वा तानूनप्त्रं समवद्यति । चतुरवत्तं पञ्चावत्तं वा । आपतये त्वा गृह्णामीत्येतैः प्रतिमन्त्रम् १

02 अनाधृष्टमसीति यजमानसप्तदशा ऋत्विजस्तानूनप्त्रं ...{Loading}...

अनाधृष्टमसीति यजमानसप्तदशा ऋत्विजस्तानूनप्त्रं समवमृशन्ति २

03 अनु मे दीक्षामिति ...{Loading}...

अनु मे दीक्षामिति यजमानः ३

04 यङ् कामयेत यज्ञयशसमृच्छेदिति ...{Loading}...

यं कामयेत यज्ञयशसमृच्छेदिति तं प्रथमम् । यदि कामयेत सर्वानिति सर्वान्सहावमर्शयेत् ४

05 तस्माद्यः सतानूनप्त्रिणामित्युक्तम् ...{Loading}...

तस्माद्यः सतानूनप्त्रिणामित्युक्तम् ५

06 प्रजापतौ त्वा मनसि ...{Loading}...

प्रजापतौ त्वा मनसि जुहोमीति यजमानस्तानूनप्त्रं त्रिरवजिघ्रति ६

07 अन्वहं वा व्रतेष्वपिनयति ...{Loading}...

अन्वहं वा व्रतेष्वपिनयति ७

08 अग्नीन्मदन्त्यापा इति पृच्छति ...{Loading}...

अग्नीन्मदन्त्यापा इति पृच्छति ८

09 मदन्ति देवीरमृता ऋतावृध ...{Loading}...

मदन्ति देवीरमृता ऋतावृध इत्याग्नीध्रः प्रत्याह ९

10 ताभिरेहीति सम्प्रेष्यति ...{Loading}...

ताभिरेहीति सम्प्रेष्यति १०

11 मदन्तीरुपस्पृश्य तानूनप्त्रिणो विस्रस्य ...{Loading}...

मदन्तीरुपस्पृश्य तानूनप्त्रिणो विस्रस्य राजानं सहिरण्यैः पाणिभिराप्याययन्त्यंशुरंशुस्ते देव सोमाप्यायतामिति ११

12 अथ निह्नुवते दक्षिणे ...{Loading}...

अथ निह्नुवते । दक्षिणे वेद्यन्ते प्रस्तरं निधाय दक्षिणान्पाणीनुत्तानान्कृत्वा सव्यान्नीच एष्टा रायः प्रेषे भगायेति १२

13 अथ यजमानोऽवान्तरदीक्षामुपैति ...{Loading}...

अथ यजमानोऽवान्तरदीक्षामुपैति १३

14 अग्ने व्रतपते त्वं ...{Loading}...

अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसीत्याहवनीयमुपतिष्ठते १४

15 एतेनैवास्मिन्समिधमादधातीति वाजसनेयकम् ...{Loading}...

एतेनैवास्मिन्समिधमादधातीति वाजसनेयकम् १५

इति प्रथमा कण्डिका


  1. See X.31.16. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For this see TS VI.2.2.1; cp. AB 1.24. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. MS III.7.10. ↩︎ ↩︎

  4. TS 1.2.10.f. ↩︎