३१

01 आसन्दीमादाय प्रतिप्रस्थाता पूर्वः ...{Loading}...

आसन्दीमादाय प्रतिप्रस्थाता पूर्वः प्रतिपद्यते १

02 या ते धामानीति ...{Loading}...

या ते धामानीति पूर्वया द्वारा प्राग्वंशं प्रविश्यापरेणाहवनीयं दक्षिणातिहृत्य वरुणस्यर्तसदन्यसीति दक्षिणेनाहवनीयं राजासन्दीं प्रतिष्ठापयति २

03 तस्यां शकटवत्कृष्णाजिनास्तरणं राज्ञश्चासादनम् ...{Loading}...

तस्यां शकटवत्कृष्णाजिनास्तरणं राज्ञश्चासादनम् ३

04 वरुणोऽसि धृतव्रत इति ...{Loading}...

वरुणोऽसि धृतव्रत इति राजानमभिमन्त्रयते ४

05 वारुणमसीति वाससा पर्यानह्यति ...{Loading}...

वारुणमसीति वाससा पर्यानह्यति ५

06 एवावन्दस्व वरुणम् बृहन्तन् ...{Loading}...

एवावन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् । स नः शर्म त्रिवरूथं वियंसत्पातं मा द्यावापृथिवी उपस्थ इत्येतया सर्वत्र राजानमासीदेत् ६

07 अग्निं राजानञ् चान्तरेण ...{Loading}...

अग्निं राजानं चान्तरेण मा संचारिष्टेति सम्प्रेष्यति ७

08 अवहननादि कर्म प्रतिपद्यते ...{Loading}...

अवहननादि कर्म प्रतिपद्यते ८

09 चतुर्गृहीतान्याज्यानि ...{Loading}...

चतुर्गृहीतान्याज्यानि ९

10 चतुर्होत्रातिथ्यमासाद्य सम्भारयजूंषि व्याचष्टे ...{Loading}...

चतुर्होत्रातिथ्यमासाद्य सम्भारयजूंषि व्याचष्टे १०

11 यजमानं वाचयतीत्येके ...{Loading}...

यजमानं वाचयतीत्येके ११

12 पशुवन्निर्मन्थ्यः सामिधेन्यश्च ...{Loading}...

पशुवन्निर्मन्थ्यः सामिधेन्यश्च १२

13 पञ्च प्रयाजाः ...{Loading}...

पञ्च प्रयाजाः १३

14 चतुर्थे सर्वमौपभृतं समानयति ...{Loading}...

चतुर्थे सर्वमौपभृतं समानयति १४

15 इडान्ता सन्तिष्ठते ...{Loading}...

इडान्ता सन्तिष्ठते १५

16 धारयति ध्रौवमाज्यमाज्यम् ...{Loading}...

धारयति ध्रौवमाज्यमाज्यम् १६

इत्येकत्रिंशी कण्डिका इति दशमः पटलः इति दशमः प्रश्नः


  1. TS 1.2.10.b. Cf. ŚB III.3.4.30. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. RV VIII.42.2; TB II.5.8.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See X.3.5-6. For this Sūtra cf. TB II.2.2.6. ↩︎