३०

01 अथातिथ्यायास्तन्त्रम् प्रक्रमयति ...{Loading}...

अथातिथ्यायास्तन्त्रं प्रक्रमयति १

02 द्वाविंशतिदारुरध्मः ...{Loading}...

द्वाविंशतिदारुरध्मः २

03 आश्ववालः प्रस्तरः ऐक्षवी ...{Loading}...

आश्ववालः प्रस्तरः । ऐक्षवी विधृती । कार्ष्मर्यमयाः परिधयः । वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते ३

04 यथार्थम् पात्रप्रयोगः ...{Loading}...

यथार्थं पात्रप्रयोगः ४

05 निर्वपणकाले पत्नीं शकटमन्वारम्भयित्वातिथ्यन् ...{Loading}...

निर्वपणकाले पत्नीं शकटमन्वारम्भयित्वातिथ्यं निर्वपति ५

06 पत्न्या वा हस्तेन ...{Loading}...

पत्न्या वा हस्तेन ६

07 हस्ताद्वा हस्तान्निर्वपन्हस्ते सर्वाञ्छकटमन्त्राञ्जपेत् ...{Loading}...

हस्ताद्वा । हस्तान्निर्वपन्हस्ते सर्वाञ्छकटमन्त्राञ्जपेत् ७

08 अग्नेरातिथ्यमसीत्येतैः प्रतिमन्त्रम् ...{Loading}...

अग्नेरातिथ्यमसीत्येतैः प्रतिमन्त्रम् ८

09 देवतादेशनस्य प्रत्याम्नायो भवति ...{Loading}...

देवतादेशनस्य प्रत्याम्नायो भवति ९

10 पञ्चसु सावित्रञ् जुष्टञ् ...{Loading}...

पञ्चसु सावित्रं जुष्टं चानुषजति १०

11 नोत्तरयोरित्येके ...{Loading}...

नोत्तरयोरित्येके ११

12 वैष्णवो नवकपालः पुरोडाशो ...{Loading}...

वैष्णवो नवकपालः पुरोडाशो भवति १२

13 विष्णुवदेवात ऊर्ध्वं संस्काराः ...{Loading}...

विष्णुवदेवात ऊर्ध्वं संस्काराः १३

14 हविष्कृता वाचं विसृज्योत्तरमनड्वाहं ...{Loading}...

हविष्कृता वाचं विसृज्योत्तरमनड्वाहं विमुच्य १४

15 वारुणमसीति वासोऽपादाय वरुणोऽसि ...{Loading}...

वारुणमसीति वासोऽपादाय वरुणोऽसि धृतव्रत इति राजानमादायाच्छिद्रपत्रः प्रजा उपावरोहोशन्नुशतीः स्योनः स्योनाः सोम राजन्विश्वस्त्वं प्रजा उपावरोह विश्वास्त्वां प्रजा उपावरोहन्त्वित्युपावहृत्योर्वन्तरिक्षमन्विहीत्यभिप्रव्रजति १५

इति त्रिंशी कण्डिका


  1. See I.3.16. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See II.9.12. ↩︎ ↩︎ ↩︎

  3. See I.5.7. ↩︎ ↩︎

  4. TS 1.2.10.d. (See X.31.4). ↩︎ ↩︎

  5. See, cp. KS II.7; VS VI.26. ↩︎