२९

01 प्रच्यवस्व भुवस्पत इति ...{Loading}...

प्रच्यवस्व भुवस्पत इति प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तन्ते १

02 श्येनो भूत्वा परापतेत्यध्वर्यू ...{Loading}...

श्येनो भूत्वा परापतेत्यध्वर्यू राजानमभिमन्त्रयते २

03 अपि पन्थामगस्महीत्यध्वर्युर्यजमानश्च दक्षिणेनोत्तरेण ...{Loading}...

अपि पन्थामगस्महीत्यध्वर्युर्यजमानश्च दक्षिणेनोत्तरेण वा राजानमतिक्रामतः ३

04 अजेनाग्नीषोमीयेण कर्णगृहीतेन यजमानो ...{Loading}...

अजेनाग्नीषोमीयेण कर्णगृहीतेन यजमानो राजानमोह्यमानं प्रतीक्षते नमो मित्रस्येति ४

05 लोहस्तूपरो भवति अप्यतूपरः ...{Loading}...

लोहस्तूपरो भवति । अप्यतूपरः । कृष्णसारङ्गो लोहितसारङ्गो वा ५

06 स्थूलः पीवा स्मश्रुणः ...{Loading}...

स्थूलः पीवा स्मश्रुणः ६

07 औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवाना ...{Loading}...

औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवाना । तां सर्वेऽध्वर्यवोऽग्रेण प्राग्वंशं राजन्योह्यमान उद्गृह्णन्ति ७

08 अग्नीन्प्रज्वलयन्ति अग्निमग्नी वा ...{Loading}...

अग्नीन्प्रज्वलयन्ति । अग्निमग्नी वा ८

09 अग्रेण प्राग्वंशम् प्रागीषमुदगीषं ...{Loading}...

अग्रेण प्राग्वंशं प्रागीषमुदगीषं वा शकटमवस्थाप्य पूर्ववदाखिद्योपस्तभ्य वरुणस्य स्कम्भनमसीति शम्यामुद्वृह्य विचृत्तो वरुणस्य पाश इति योक्त्रपाशं विचृत्योन्मुक्तो वरुणस्य पाश इत्यभिधानीमुन्मुञ्चति ९

10 एवमुत्तरमनड्वाहं विमुञ्चति ...{Loading}...

एवमुत्तरमनड्वाहं विमुञ्चति १०

11 विमुक्तः सव्यो ऽविमुक्तो ...{Loading}...

विमुक्तः सव्यो ऽविमुक्तो वा ११

इत्येकोनविंशी कण्डिका


  1. TS I.2.9.a. This verse is be recited by the Adhvaryu. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.2.9.d. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. KS XXIV.7; cp. ŚB III.3.4.26. ↩︎ ↩︎ ↩︎

  4. TS I.2.9.g ↩︎