२८

01 अत्र दर्शपूर्णमासवद्धुरावभिमृश्य वारुणमसीति ...{Loading}...

अत्र दर्शपूर्णमासवद्धुरावभिमृश्य वारुणमसीति शकटमाखिद्य वरुणस्त्वोत्तभ्नात्वित्युपस्तभ्य वरुणस्य स्कम्भनमसीति शम्यां प्रतिमुच्योस्रावेतं धूर्षाहावित्यनड्वाहावुपाज्य वारुणमसीति योक्त्वपाशं परिहृत्य प्रत्यस्तो वरुणस्य पाश इत्यभिधानीं प्रत्यस्यति १

02 एवमुत्तरमनद्धाहं युनक्ति ...{Loading}...

एवमुत्तरमनद्धाहं युनक्ति २

03 हरिणी शाखे बिभ्रन्सुब्रह्मण्योऽन्तरेषे ...{Loading}...

हरिणी शाखे बिभ्रन्सुब्रह्मण्योऽन्तरेषे व सर्पति । पलाशशाखे शमीशाखे वा ३

04 अथाध्वर्युः शकटमन्वारभ्य सम्प्रेष्यति ...{Loading}...

अथाध्वर्युः शकटमन्वारभ्य सम्प्रेष्यति सोमाय राज्ञे क्रीताय प्रोह्यमाणायानुब्रूहि सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति ४

05 सर्वासु सुब्रह्मण्यासु सुब्रह्मण्यमन्वारभ्य ...{Loading}...

सर्वासु सुब्रह्मण्यासु सुब्रह्मण्यमन्वारभ्य यजमानो जपति सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पादः । सासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पादः । सासि सुब्रह्मण्ये तस्यास्ते द्यौः पादः । सासि सुब्रह्मण्ये तस्यास्ते दिशः पादः । परोरजास्ते पञ्चमः पादः । सा न इषमूर्जं धुक्ष्व तेज इन्द्रियं ब्रह्मवर्चसमन्नाद्यमिति ५

06 एवन् त्रिराहूतामाहूताम् ...{Loading}...

एवं त्रिराहूतामाहूताम् ६

07 प्रथमायान् त्रिरनूक्तायाम् ...{Loading}...

प्रथमायां त्रिरनूक्तायाम् ७

इत्यष्टाविंशी कण्डिका


  1. See 1.17.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. MS I.2.6; KS II.7. ↩︎ ↩︎ ↩︎ ↩︎

  3. The front side of the cart is resting on the ground. ↩︎

  4. MS I.2.6; KS II.7. ↩︎

  5. TS 1.2.8.i.k. ↩︎

  6. TS 1.2.6.h. ↩︎

  7. Cf. ŚB III.3.4.11. ↩︎

  8. MS I.2.6; KS II.9. ↩︎

  9. TS 1.2.8.1. ↩︎